मध्यप्रदेशः विश्व विरासत दिवसे अद्य सर्वेषी संग्रहालयेषु स्मारकेषु भविष्यति निःशुल्कं प्रवेशः
भोपालम्, 18 अप्रैलमासः (हि.स.)। मध्यप्रदेशे “विश्वविरासतादिवसस्य” विशेषावसरे अद्य शनिवासरे भोपालस्थितस्य पुरातत्त्व-अभिलेखागार-संग्रहालय-संचालनालयस्य अधीनस्थेषु प्रदेशस्य सर्वेषु संग्रहालयेषु स्मारकेषु च पर्यटकानां प्रवेशः पूर्णतया निःशुल्कः भविष
सांकेतिक  फाेटाे


भोपालम्, 18 अप्रैलमासः (हि.स.)।

मध्यप्रदेशे “विश्वविरासतादिवसस्य” विशेषावसरे अद्य शनिवासरे भोपालस्थितस्य पुरातत्त्व-अभिलेखागार-संग्रहालय-संचालनालयस्य अधीनस्थेषु प्रदेशस्य सर्वेषु संग्रहालयेषु स्मारकेषु च पर्यटकानां प्रवेशः पूर्णतया निःशुल्कः भविष्यति।

प्रदेशस्य संस्कृति-पर्यटन-राज्यमन्त्री (स्वतन्त्रप्रभारः) धर्मेन्द्र भावसिंह लोधी इत्यनेन उक्तं यत् एषा सुविधा सर्वेषां पर्यटकानां कृते उपलब्धा भविष्यति, येन ते विना किञ्चित् शुल्कं मध्यप्रदेशस्य गौरवशालिनीं विरासतां अवलोकयितुं शक्नुवन्ति।

राज्यमन्त्री लोधी इत्यनेन अपि उक्तं यत् अस्य मुख्यः उद्देश्यः नागरिकान् स्वस्य प्राचीना कला, वास्तुकला तथा ऐतिहासिकमहत्त्वयुक्तानां वस्तूनां प्रति जागरूकान् कर्तुम् अस्ति।

राज्यमन्त्री लोधी जनसामान्यं पर्यटकान् च प्रति अपीलं कृतवान् यत् ते अस्य अवसरस्य अधिकतमं लाभं गृह्णीयुः तथा स्वस्य वैभवशालिनीभिः ऐतिहासिक-पुरातात्त्विक-विरासताभिः सह सम्बद्धाः भवन्तु।

---------------

हिन्दुस्थान समाचार