Enter your Email Address to subscribe to our newsletters

सुपौलम्, 18 अप्रैलमासः (हि.स.)।
नॉर्थ बिहार पावर डिस्ट्रीब्यूशन कंपनी लिमिटेडस्य विद्युत्-आपूर्ति-प्रमण्डलेन सुपौल-जनपदे २० अप्रैल सोमवासरे ‘सोलर मेला २०२६’ इत्यस्य आयोजनं करिष्यते। अयं कार्यक्रमः सुपौल-स्थिते विद्युत्-कार्यालय-परिसरे प्रातः १० वादनात् सायं ४ वादनपर्यन्तं आयोजितः भविष्यति।
अस्य मेलेस्य मुख्यः उद्देश्यः केन्द्र-सरकारस्य ‘पीएम सूर्यघर मुफ्त विद्युत् योजना’ अन्तर्गतं जनान् गृह-उपरि स्थापित-सौर-परियोजनायाः विषये तकनीकी-ज्ञानं दातुं तथा अधिकाधिक-उपभोक्तॄन् योजनया सह संयोजयितुं च अस्ति।
मेला-स्थले विशेषज्ञैः सौर-पट्टिका-स्थापन-प्रक्रिया, व्ययः, सरकारी-अनुदानम् तथा विद्युत्-शुल्के भविष्यति या बचतिः तस्याः विषये विस्तरेण सूचना प्रदास्यते। सहैव इच्छुक-उपभोक्तॄणां कृते तत्क्षण-पंजीकरणस्य सुविधा अपि उपलब्धा भविष्यति।
विद्युत्-विभागेन जनपदस्य नागरिकान् प्रति अपीलं कृतं यत् ते मेले आगत्य सौर-ऊर्जा-संबद्धां जानकारीं प्राप्नुयुः तथा योजनायाः लाभं गृह्णीयुः।
हिन्दुस्थान समाचार