लोकसभायाः अध्यक्षः, गृह मंत्री समेत्य नेतारो गुरु अंगद देवस्य प्रकाश पर्वणि अददात् शुभकामनाः
नवदिल्ली, 18 अप्रैलमासः (हि.स.)। सिखधर्मस्य द्वितीयगुरोः गुरु अंगद देव महाभागस्य पावनप्रकाशपर्वणि अवसरे लोकसभाध्यक्षः ओम बिरला, केन्द्रीयगृहमन्त्री अमित शाह सहिताः शीर्षनेतारः तं श्रद्धया नत्वा देशवासिभ्यः शुभाशयाः अददुः। लोकसभाध्यक्षः ओम बिरला
सिख धर्म के द्वितीय गुरु गुरु अंगद देव  (फाइल फोटो)।


नवदिल्ली, 18 अप्रैलमासः (हि.स.)।

सिखधर्मस्य द्वितीयगुरोः गुरु अंगद देव महाभागस्य पावनप्रकाशपर्वणि अवसरे लोकसभाध्यक्षः ओम बिरला, केन्द्रीयगृहमन्त्री अमित शाह सहिताः शीर्षनेतारः तं श्रद्धया नत्वा देशवासिभ्यः शुभाशयाः अददुः।

लोकसभाध्यक्षः ओम बिरला सामाजिकमाध्यमे ‘एक्स’ इत्यस्मिन् लिखित्वा गुरु अंगद देव महाभागाय श्रद्धां समर्प्य अवदत् यत् तेन स्वजीवनेनोपदेशैश्च मानवता, सेवा, अनुशासनं च महान् सिखपरम्परा अग्रे नीताः। तस्य आदर्शाः सदा समाजं सम्यक् मार्गे प्रेरयिष्यन्ति।

केन्द्रीयगृहमन्त्री सहकारितामन्त्री अमित शाह उक्तवान् यत् गुरु अंगद देव महाभागेन सेवा, भक्ति, समाजसुधारश्च स्वजीवनस्य आधारः कृतः। गुरुमुखीलिपेः विकासं लङ्गरपरम्परायाः च सुदृढीकरणं कृत्वा तेन समानता एकता च सन्देशः प्रदत्तः।

केन्द्रीयसड़कपरिवहनमन्त्री नितिन गडकरी अपि गुरुसाहिबं नत्वा तस्य योगदानं समाजस्य प्रेरणास्रोतः इति उक्तवान्।

केन्द्रीयकृषिमन्त्री शिवराजसिंह चौहान स्वसन्देशे लिखितवान् यत् धर्माध्यात्मसृजनानां त्रिवेणी, सेवा दया करुणायाः सागरः, सिखानां द्वितीयगुरुः गुरु अंगद देव महाराजः, तस्य पावनप्रकाशपर्वणि तस्य चरणयोः नमनं करोमि। तस्य ओजस्विवाण्या निर्गताः अमृतवचनाः सर्वदा जगतः कल्याणं करिष्यन्ति।

केन्द्रीयशिक्षामन्त्री धर्मेन्द्र प्रधान अपि नत्वा उक्तवान् यत् गुरुमुखीलिपेः प्रसारः लङ्गरपरम्परायाः च सुदृढीकरणे तस्य योगदानं सामाजिकएकतां मानवीयमूल्यानि च नूतनां शक्तिं ददाति। तस्य प्रेरकविचाराः सदा समाजं सेवा सद्भावयोः मार्गे प्रेषयिष्यन्ति।

केन्द्रीयकानूनमन्त्री अर्जुनराम मेघवाल गुरु अंगद देव महाभागं सेवा दया करुणायाः सागरः इति वर्णयित्वा तस्य प्रकाशपर्वणि शुभाशयाः दत्तवान्।

केन्द्रीयमन्त्री गिरिराज सिंह अपि सर्वेभ्यः प्रकाशपर्वणः शुभाशयाः दत्वा उक्तवान् यत् गुरुसाहिबस्य महान् विचाराः मानवसेवायां तस्य समर्पणं च अस्मान् सदा सन्मार्गे प्रेषयिष्यन्ति।

दिल्ली उपराज्यपालः तरणजीतसिंह संधू तथा दिल्लीमुख्यमन्त्री रेखा गुप्ता अपि सिखसमुदायं सर्वान् श्रद्धालून् च अभिनन्दितवन्तौ।

उल्लेखनीयम् यत् गुरु अंगद देव महाभागेन गुरुमुखीलिपेः विकासे, लङ्गरपरम्परायाः विस्तारस्य, सिखपन्थस्य सुदृढाधारनिर्माणे च महत्त्वपूर्णा भूमिका निर्वहिता। तस्य जीवनं अद्यापि मानवता सेवा सद्भावस्य सन्देशं ददाति।

---------------

हिन्दुस्थान समाचार