तमिलनाडुः कांग्रेस नेतुः राहुल गांधिनः निर्वाचनभ्रमणम् अद्य
चेन्नई, 18 अप्रैलमासः (हि.स.)। राज्ये २३ अप्रैल दिनाङ्के भविष्यति विधानसभा निर्वाचनम्। तस्मिन् स्वपक्षस्य अभ्यर्थिनां समर्थनार्थं प्रचारकार्यं कर्तुं कांग्रेसदलस्य नेता राहुल गांधी शनिवासरे अत्र आगमिष्यति। डीएमके गठबन्धने सम्मिलितायै कांग्रेसपार्
राहुल गांधी


चेन्नई, 18 अप्रैलमासः (हि.स.)।

राज्ये २३ अप्रैल दिनाङ्के भविष्यति विधानसभा निर्वाचनम्। तस्मिन् स्वपक्षस्य अभ्यर्थिनां समर्थनार्थं प्रचारकार्यं कर्तुं कांग्रेसदलस्य नेता राहुल गांधी शनिवासरे अत्र आगमिष्यति। डीएमके गठबन्धने सम्मिलितायै कांग्रेसपार्टीयै अष्टाविंशतिः आसनानि आवंटितानि सन्ति।

निर्धारितकार्यक्रमानुसारं राहुल गांधी अद्य प्रातः ८:३० वादने दिल्लीनगरात् विशेषविमानेन प्रस्थितः सन् प्रातः ११:१० वादने चेन्नै अन्तराष्ट्रिय विमानस्थानके आगमिष्यति। प्रातः ११:३० वादने चेन्नईनगरात् हेलिकॉप्टरयाननेन प्रस्थित्य ११:४५ वादने तिरुवल्लूर जनपदे स्थितं पोन्नेरी विधानसभाक्षेत्रं प्राप्स्यति। तत्र आयोजितायां जनसभायां सः ११:५५ वादनात् मध्याह्न १२:४० वादनपर्यन्तं सहभागं करिष्यति।

ततः परं पोन्नेरीस्थानात् मध्याह्न १२:५० वादने हेलिकॉप्टरयाननेन प्रस्थित्य १:१५ वादने शोलिंगरस्थानं गमिष्यति। तत्र जनसभायां सः १:२५ वादनात् २:१० वादनपर्यन्तं सहभागं करिष्यति। अनन्तरं २:२० वादने शोलिंगरस्थानात् प्रस्थित्य २:४५ वादने पुनः चेन्नैनगरं प्रत्यागमिष्यति।

चेन्नैनगरात् ३:०० वादने विशेषविमानेन प्रस्थित्य ३:४५ वादने तिरुचिरापल्ली नगरं प्राप्स्यति। ततः ३:५० वादने हेलिकॉप्टरयाननेन प्रस्थित्य ४:०५ वादने तुरैयूरस्थानं गमिष्यति। तुरैयूरे ४:१५ वादनात् ५:०० वादनपर्यन्तं आयोजितायां जनसभायां सः सहभागं करिष्यति।

ततः परं ५:१० वादने तुरैयूरस्थानात् प्रस्थित्य ५:२५ वादने पुनः तिरुचिरापल्लीनगरं प्राप्स्यति। तिरुचिरापल्लीनगरात् ५:४० वादने विशेषविमानेन प्रस्थित्य रात्रौ ८:३० वादने दिल्लीनगरं प्रत्यागमिष्यति।

---------------

हिन्दुस्थान समाचार