Enter your Email Address to subscribe to our newsletters

कोलकाता-नगरम्, १८ अप्रैलमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री हिमंतबिस्वसरमा शनिवासरे पश्चिम-बङ्गालस्य मुख्यमन्त्री-ममता-बनर्जीं तीव्रतया आलोचयत्। तेन आरोपितं यत् राज्य-सर्वकारः संसाधनानि अवैध-प्रवेशकानां कृते उपयुञ्जते। तेन उक्तं यत् यदि ममता बनर्जी सत्ता-स्थानात् न अपसार्यते, तर्हि भविष्ये बङ्गालः हस्तात् निर्गमिष्यति।
कलिम्पोंग-स्थले आयोजिते निर्वाचन-सभायां सः अवदत् यत् असम-त्रिपुरा-राज्ययोः तस्य दलस्य सर्वकारेण बाङ्ग्लादेशीय-अवैधप्रवेशकानां प्रवेशः निरुद्धः, किन्तु पश्चिम-बङ्गाले एषः प्रवाहः अद्यापि वर्तते।
तेन आरोपितं यत् ममता बनर्जी मत-संग्रह-राजनीत्यर्थं राज्य-कोषं अवैधप्रवेशकानां कृते उद्घाटितवती। तस्य मतानुसारं तस्याः शासनकाले सम्पूर्ण-बङ्गालस्य हानिः अभवत् तथा उत्तर-बङ्गाले विकासः न जातः।
सः अवदत् यत् राज्ये सत्ता-परिवर्तनस्य आवश्यकता अस्ति। तेन दावा कृतः यत् यदि पश्चिम-बङ्गाले भारतीय जनता-पक्ष-सर्वकारः स्थाप्यते, तर्हि अवैध-प्रवेशका: निष्कास्यन्ते।
सभायां सः गोरखालैण्ड-विषयम् अपि उल्लिख्य अवदत् यत् तस्य दलं सत्तायां आगत्य संवैधानिक-समाधानं शोधयिष्यति तथा गोरखा-समुदायाय न्यायं दास्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता