Enter your Email Address to subscribe to our newsletters

कोलकाता-नगरम्, १८ अप्रैलमासः (हि.स.)। भारतीय जनता-पक्षस्य प्रदेशाध्यक्षः शमीकभट्टाचार्य: पश्चिम-बङ्गाल-राज्ये तृणमूल कांग्रेस-सर्वकारं तीव्रतया आलोचयत्। तेन उक्तं यत् राज्ये लोकतान्त्रिक-संस्थाः दुर्बलाः जाताः, प्रशासन-दलयोः भेदः न्यूनः अभवत्, तथा आर्थिक-क्षेत्रे ऋणभार-वृद्धिः, उद्योग-ह्रासः, रोजगार-अभावः च दृश्यते। कृषकाः अपि संकटे सन्ति इति तेन उक्तम्।
अग्रिम-विधानसभा-निर्वाचनस्य विषये शमीकभट्टाचार्य: उक्तवान् यत् एतत् निर्वाचनं भाजपा-विरुद्धं तृणमूल-कांग्रेस इति न, अपितु जनता-विरुद्धं तृणमूल-कांग्रेस इति संघर्षः भविष्यति। तेन दावा कृतः यत् जन-असन्तोषः निर्वाचन-परिणामेषु दृश्यते।
महिला-आरक्षण-विधेयकस्य विषये तेन उक्तं यत् भाजपा महिला-सशक्तिकरणाय प्रतिबद्धा अस्ति तथा विविध-योजनाभिः तासां विकासाय कार्यं करोति।
मतदाता-सूची-शुद्धिकरण-प्रक्रियायाः विषये तेन उक्तं यत् एषा आवश्यकी अस्ति, किन्तु पश्चिम-बङ्गाले सम्यक्-रीत्या न कार्यान्विता।
मुख्यमन्त्री-पदस्य मुखस्य प्रश्ने तेन उक्तं यत् भाजपा व्यक्तिं न, अपितु नीतिम् आदर्शं च आधारं कृत्वा निर्वाचनं युध्यते तथा जनतैव दलस्य मुखम् अस्ति।
सः अवदत् यत् राज्ये अपाराः सम्भावनाः सन्ति, किन्तु सम्यक्-नीतिः इच्छाशक्तेः च अभावात् विकासः न भवति। आगामी-निर्वाचनं “जनता-विरुद्धं तृणमूल-कांग्रेस” इति संघर्षः भविष्यति इति तेन उक्तम्। अन्ते सः भ्रष्टाचार-मुक्तं, भय-मुक्तं, विकासोन्मुखं पश्चिम-बङ्गालं निर्मातुम् आह्वानं कृतवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता