महाराष्ट्रस्य पुणेविमानस्थापनके रनवे रिपेयर इत्यस्य कार्यं पूर्णं, पुनः उड्डयनं पूर्ववतः - मुरलीधर मोहोलः
मुंबई, 18 अप्रैलमासः (हि.स.)। केन्द्रीयनागरीउड्डयनराज्यमन्त्री मुरलीधर मोहोल शनिवासरे अवदत् यत् “पुणे विमानस्थानके रनवे मरम्मतकार्यं युद्धस्तरेण सम्पूर्णं कृतम्। सुरक्षा प्रथमं स्थापयित्वा प्रातः ७.३० वादनात् विमानानां उड्डयनं आरब्धम् तथा ८.०० वा
फाईल फोटो: पुणे एयरपोर्ट


मुंबई, 18 अप्रैलमासः (हि.स.)।

केन्द्रीयनागरीउड्डयनराज्यमन्त्री मुरलीधर मोहोल शनिवासरे अवदत् यत् “पुणे विमानस्थानके रनवे मरम्मतकार्यं युद्धस्तरेण सम्पूर्णं कृतम्। सुरक्षा प्रथमं स्थापयित्वा प्रातः ७.३० वादनात् विमानानां उड्डयनं आरब्धम् तथा ८.०० वादनात् अवतरणं अपि प्रारब्धम्।”

मोहोल उक्तवान् यत् वायुसेनया घटनायाः सम्पूर्णपरीक्षणार्थं कोर्ट् ऑफ् इन्क्वायरी आदेशः दत्तः। अधुना एतत् परीक्ष्यते यत् कठोरावतरणं कस्यचित् यान्त्रिकदोषस्य कारणेन जातम् उत अन्येन कारणेन। अपेक्षा अस्ति यत् दिवसे पुणेनगरे विमानपरिवहनं शनैः शनैः सामान्यस्थितिं गमिष्यति।

उल्लेखनीयं यत् शुक्रवासरे रात्रौ पुणे विमानस्थानके भारतीयवायुसेनायाः एकस्य युद्धविमानस्य कठोरावतरणं कृतम्। अस्य कारणेन युद्धविमानं तथा रनवे उभौ अपि क्षतिग्रस्तौ अभवताम्, किन्तु अस्मिन् घटनायां कश्चन अपि न हतः। अस्य घटनायाः कारणेन पुणे विमानस्थानकस्य रनवे नवघण्टापर्यन्तं निरुद्धः आसीत्। अस्य कारणात् पुणेतः आगच्छन्तीनां गच्छन्तीनां च त्रिंशतधिकाः विमानयात्राः निरस्ताः वा परिवर्तिताः अभवन्, येन यात्रिकाणां महती क्लेशः अभवत्।

अस्य घटनायाः अनन्तरं रात्रौ ११ वादनात् विमानस्थानके सर्वाः क्रियाः निरुद्धाः। पुणे प्रति आगच्छन्तीनां न्यूनातिन्यूनं अष्ट विमानयात्राः सूरत्, गोवा, नवीमुम्बई, चेन्नई, कोयंबटूर इत्यादिषु नगरेषु परिवर्तिताः। IndiGo तथा Akasa Air इत्येतयोः प्रातःकालीनाः बहवः विमानप्रयाणाः निरस्ताः अभवन्। एतेषु दिल्ली, बेंगलुरु, चेन्नई, वडोदरा गन्तुमिच्छन्तः यात्रिकाः अपि आसन्। अर्धरात्रे विमानप्रयाणानां निरसनात् यात्रिकेषु संभ्रमः आसीत्। विमानसेवाः यात्रिकेभ्यः यात्रानिरसनं कृत्वा धनप्रत्यर्पणं ग्राहयितुं अथवा तत्रैव स्थितुं विकल्पं दत्तवन्तः।

अस्य घटनायाः अनन्तरं नागरीउड्डयनराज्यमन्त्री तथा पुणेनगरस्य सांसदः मुरलीधर मोहोल शीघ्रमेव वायुसेनया विमानस्थानकप्रशासनस्य च सह संवादं कृतवान्। तेन सामाजिकमाध्यमेन विमानस्थानकस्य विषये सूचना दत्ता। रनवे मध्ये स्थितं युद्धविमानं निष्कासयितुं क्रेनयन्त्राणि गुरूयन्त्राणि च उपयोजितानि। वायुसेनायाः प्राविधिकदलम् रात्रिं यावत् कार्यं कृत्वा रनवे पुनः प्रचलितं कृतवान्। अनेन नवघण्टानन्तरं पुणे विमानस्थानकस्य कार्यं पूर्ववत् अभवत्।

---------------

हिन्दुस्थान समाचार