Enter your Email Address to subscribe to our newsletters

- उद्घाटनात् पूर्वं त्रिदिवसीयस्य वैदिकानुष्ठानस्य शुभारम्भः
- शताचार्याणां वैदिकमन्त्रोच्चारेण निर्मितम् आध्यात्मिकं वातावरणम्
- ‘प्रणव’ भवनं संस्कृतस्य वैश्विकप्रसारस्य सङ्कल्पकेन्द्रं भविष्यति: नीतिन नवीनः
नवदेहली, १८ अप्रैलमासः (हि.स.)। संस्कृतभाषायाः प्रचार-प्रसारे अग्रणीसङ्घटनस्य संस्कृतभारत्याः नवनिर्मितकेन्द्रीयकार्यालयस्य ‘प्रणव’ इत्यस्य उद्घाटनं सोमवासरे भविष्यति। राजधान्याः दीनदयाल उपाध्याय मार्गे स्थितस्य अस्य अत्याधुनिकभवनस्य लोकार्पणं राष्ट्रियस्वयंसेवकसङ्घस्य सरसङ्घचालकः डॉ. मोहनभागवतः करिष्यति।
एतद् भवनं संस्कृतभाषायाः पुनरुत्थानस्य, शोधस्य तथा च अन्ताराष्ट्रियस्तरे तस्याः प्रसारस्य कृते एकं प्रमुखकेन्द्ररूपेण विकसितं कृतम् अस्ति। उद्घाटनात् पूर्वं शनिवासरे त्रिदिवसीयस्य वैदिकानुष्ठानस्य शुभारम्भः अभवत्। सम्पूर्णदेशतः आगतैः प्रायः १०० आचार्यैः वैदिकमन्त्रोच्चारेण सह वातावरणम् आध्यात्मिकं कृतम्। आचार्यसुधीरस्य, प्रो. रामराजोपाध्यायस्य तथा प्रो. परमानन्दभारद्वाजस्य मार्गदर्शने वास्तुपूजनं, मण्डलरचना, कलशस्थापना तथा नवग्रहशान्तिसदृशाः अनुष्ठानाः सम्पन्नाः भवन्ति। संस्कृतभारत्याः अखिलभारतीय-अध्यक्षः प्रो. रमेशकुमारपाण्डेयः तथा दिल्लीप्रान्त-अध्यक्षः डॉ. वागीशभट्टः सपत्नीकौ मुख्ययजमानरूपेण पूजार्चनं चक्रतुः।
अस्मिन् अवसरे भारतीयजनतादलस्य राष्ट्रियाध्यक्षः नीतिननवीनः अवदत् यत् ‘प्रणव’ भवनं संस्कृतस्य वैश्विकप्रसारस्य सङ्कल्पकेन्द्रं भविष्यति। सः उक्तवान् यत् अस्य माध्यमेन भारतीयसंस्कृतिः, वैदिकपरम्पराः जीवनमूल्यानि च नूतनसन्ततिं प्रति प्रभावीरीत्या प्रापयिष्यन्ते। सः अकथयत् यत् एतत् केन्द्रं डिजिटलमाध्यमैः संस्कृतशिक्षणे, प्राचीनपाण्डुलिपीनां संरक्षणे तथा अन्ताराष्ट्रियस्तरे भाषायाः प्रचारे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
संस्कृतभारत्याः अखिलभारतीयप्रचारप्रमुखस्य श्रीशदेवपुजारिणः अनुसारं ‘प्रणव’ भवनम् आधुनिकसुविधाभिः सुसज्जितं कृतमस्ति, येन सङ्घटनस्य गतिविधयः अधिकां गतिं प्राप्स्यन्ति। मुख्योद्घाटनसमारोहे देशभरतः प्रतिनिधयः, शिक्षाविदः संस्कृतप्रेमिणः च महत्या सङ्ख्यया सम्मिलिताः भविष्यन्ति। एतद् आयोजनं संस्कृतस्य नवजागरणस्य दिशि एकं महत्त्वपूर्णं पदं मन्यते।
हिन्दुस्थान समाचार