Enter your Email Address to subscribe to our newsletters


लखनऊ,19 अप्रैलमासः (हि.स.)।
केन्द्रीय-महिला-बालविकासमन्त्री अन्नपूर्णा देवी अवदत् यत् समाजवादी पार्टी, काङ्ग्रेस, तृणमूल-काङ्ग्रेस सदृशैः दलैः संसदि नारीहितस्य प्रस्तावं पातयित्वा अर्धजनसंख्यायाः (महिलानाम्) हृदयं त्रुटितम् अस्ति। सदने 'नारी शक्ति वंदन अधिनियमस्य' अपारितत्वे सति सपा-सहिताः विपक्षीदलानां सदस्याः हर्षेण करतलवादनं कुर्वन्तः आसन्। अस्य नारीविरोधि-आचरणस्य फलं सपा-काङ्ग्रेस-दलाभ्यां निर्वाचने सोढव्यं भविष्यति।
केन्द्रीय-महिला-बालविकासमन्त्री रविवासरे अत्र भाजपा-दलस्य प्रदेशकार्यालये आयोजितां पत्रकारगोष्ठीं सम्बोधयन्ती आसीत्। पत्रकारगोष्ठ्यां उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, केन्द्रीय-वित्तराज्यमन्त्री तथा भाजपा-प्रदेशाध्यक्षः पंकज चौधरी, सुभासपा-अध्यक्षः ओमप्रकाश राजभरः, महिला-आयोगस्य उपाध्यक्षा अपर्णा यादव, निषाद-पक्षस्य अध्यक्षः डा. संजय निषादः च उपस्थिताः आसन्।
केन्द्रीय-महिला-बालविकासमन्त्री अन्नपूर्णा देवी अवदत् यत् प्रधानमन्त्रिणा नरेन्द्र मोदिना आर्थिक-सामाजिकरूपेण महिलानां सशक्तिकरणस्य कार्यं कृतम्। अधुना तासाम् राजनैतिक-सशक्तिकरणस्य अवसरः आगतः, यदा च महिलाभ्यः तासाम् अधिकारं प्रदापयितुं 'नारी शक्ति वंदन अधिनियमे' संशोधनविधेयकम् आनीतं, तदा 'इण्डी' गठबन्धनस्य दलैः अस्य विरोधे मतदानं कृतम्। इण्डि-गठबन्धनस्य महिलाविरोधि-मानसिकता तेषां स्वभावे एव अस्ति। एतदर्थं अर्धजनसंख्या तान् न क्षमिष्यते। नारीशक्तिः अधुना जागरिता वर्तते।
अन्नपूर्णा देवी उक्तवती यत् देशे ५० वर्षेभ्यः अधिकं कालं काङ्ग्रेस-दलस्य सर्वकारः आसीत्, तस्मिन् समये ओबीसी वर्गाय अधिकारप्रदाने कः प्रतिबन्धं कृतवान्? काङ्ग्रेस-दलं अद्य ओबीसी-आरक्षणस्य चर्चां करोति, यदा तु 'मण्डल-आयोगस्य' प्रतिवेदनं बहुवर्षपर्यन्तं एतैः एव जनैः निरुद्धम् आसीत्। परं ओबीसी-वर्गाय संवैधानिकं गौरवं प्रदातुं कार्यं मोदी-सर्वकारेण कृतम्। सपा-दलं लक्ष्यीकृत्य सा अवदत् यत् समाजवादी पार्टी तुष्टीकरणस्य राजनीतिं करोति। वयं बाबा साहबस्य (अम्बेडकरस्य) संविधानं मन्वन्तः जनाः स्मः। बाबा साहबः धर्मस्य आधारेण आरक्षणस्य विरोधं कृतवान् आसीत्।
हिन्दुस्थान समाचार