केन्यायाः केफर लुंबासी अजयत् सप्तमस्य चन्द्रशेखर हाफ मैराथन इत्यस्य विजयश्रीः
बलिया (उत्तर प्रदेशः), 19 अप्रैलमासः (हि.स.)। पूर्वप्रधानमन्त्रिणः चंद्रशेखर स्मृत्यर्थं रविवासरे आयोजितायां सप्तमी चन्द्रशेखर अर्धमैराथन (२१ किलोमीटर) प्रतियोगितायां सवा-लक्ष-रूप्यक-पुरस्कारयुक्तां ट्रॉफीं केन्यादेशीयधावकः केफर लुम्बासी विजित्य
प्रथम विजेता केन्या के केफर


बलिया (उत्तर प्रदेशः), 19 अप्रैलमासः (हि.स.)।

पूर्वप्रधानमन्त्रिणः चंद्रशेखर स्मृत्यर्थं रविवासरे आयोजितायां सप्तमी चन्द्रशेखर अर्धमैराथन (२१ किलोमीटर) प्रतियोगितायां सवा-लक्ष-रूप्यक-पुरस्कारयुक्तां ट्रॉफीं केन्यादेशीयधावकः केफर लुम्बासी विजित्य प्राप्तवान्। प्रयागराज निवासी सचिन यादव द्वितीयस्थानं, केन्यादेशीयः केबिछी वाइजली तृतीयस्थानं च प्राप्तवन्तौ।

अस्यां मैराथनस्पर्धायां भागग्रहणार्थं ७३० क्रीडकाḥ पंजीकरणं कृतवन्तः। सर्वे क्रीडकाः प्रातः षड्वादने प्रारम्भबिन्दौ उपस्थिताः। पटपर पचखोरा इत्यत्र सांसदः नीरज शेखर तथा भाजपाजिलाध्यक्षः संजय मिश्र इत्याभ्यां ध्वजारोहणेन स्पर्धायाः आरम्भः कृतः।

केन्यादेशीयधावकाः आरम्भात् एव अग्रस्थानं धारयन्तः आसन्। २४० संख्याकवस्त्रं धारयन् केफर लुम्बासी ५९ निमेष ५ सेकण्डेषु स्वदौडं सम्पन्नवान्। सः प्रारम्भबिन्दुतः वीर लोरिक स्पोर्ट्स स्टेडियम स्थितां समापनरेखां यावत् निरन्तरं अग्रे एव आसीत्।

यद्यपि सचिन यादव अपि तेन सह समं धावन् तं पराजेतुं यत्नं कृतवान्, तथापि केवलं ३२ सेकण्डैः पश्चात् स्थित्वा द्वितीयस्थानं प्राप्तवान्। २३० संख्याकवस्त्रं धारयन् सः ५९ निमेष ३७ सेकण्डेषु स्वदौडं समाप्तवान्। केन्यादेशीयः केबिछी वाइजली एकघण्टा ५३ सेकण्डेषु धावित्वा तृतीयस्थानं प्राप्तवान्।

अन्ये धावकाः अपि क्रमशः चतुर्थादिदशमस्थानपर्यन्तं स्थानानि प्राप्तवन्तः— वाराणसीनिवासी अनिल पटेल चतुर्थः, जुगनू कुमार पञ्चमः, अभिषेक प्रजापति षष्ठः, केन्यादेशीयः चेपके वांग सप्तमः, बलियानिवासी सोनू कुमार राजभर अष्टमः, नीतीश कुमार नवमः, तथा मध्यप्रदेशस्य मऊगंजप्रदेशीयः पंकज पटेल दशमस्थानं प्राप्तवान्। पंकज पटेल एकघण्टा सप्त निमेष १५ सेकण्डमिते काले स्वधावनं समाप्तवान्।

समापनरेखां यावत् प्रायः १५० क्रीडकाः एव आगच्छन्। वाराणसीनिवासी कुश कुमार एकघण्टा १५ निमेष २३ सेकण्डेषु धावित्वा समापनं कृतवान्।

प्रथमविजेतुः केफर लुम्बासी १,२५,००० रूप्यकाणि, द्वितीयविजेतुः सचिन यादव ६५,००० रूप्यकाणि, तृतीयविजेतुः केबिछी वाइजली ३५,००० रूप्यकाणि च नगदपुरस्काररूपेण प्रदत्तानि। पुरस्कारवितरणकार्यक्रमे स्टेडियमे ज्ञानकुञ्ज बंशीबाजारविद्यालयस्य छात्राः स्वसंगीतप्रस्तुत्या वातावरणं रमणीयं कृतवन्तः।

---------------

हिन्दुस्थान समाचार