Enter your Email Address to subscribe to our newsletters

चतरा, 19 अप्रैलमासः (हि.स.)।
जनपदस्य नवपदस्थापितः उपायुक्तः (डीसी) रवि-आनन्दः रविवासरे इटखोरी-स्थितं प्रसिद्धं मातुः भद्रकाली-मन्दिरं गत्वा विधिवत् पूजा-अर्चनां कृतवान्। सः माता-भद्रकाल्याः मुख्य-मन्दिरे दर्शन-पूजनं कृत्वा जिलस्य सुख-समृद्धेः शान्तेः च कामनां कृतवान्।
ततः अनन्तरम् उपायुक्तः रवि-आनन्दः मन्दिर-परिसरे स्थितं सहस्र-शिवलिङ्ग-महादेव-मन्दिरम्, राम-जानकी-मन्दिरम्, पञ्चमुखी-हनुमान-मन्दिरम्, शनि-देव-मन्दिरम् तथा कोठेश्वर-नाथ-मन्दिरम् इत्यादिषु अन्येषु देवालयेषु अपि पूजा-अर्चनां कृतवान्।
मन्दिर-आगमने सति एसडीओ जहूर-आलमः, भाजपा-जिला-महामन्त्री मृत्युंजय-सिंहः, रत्नेश्वर-शर्मा, पूर्व-जिला-मन्त्री सतीश-सिंहः, सुरेन्द्र-सिंहः, सन्तोष-सोनी इत्यादयः अन्ये च जनाः मन्दिर-कार्यालये उपायुक्तं रवि-आनन्दं मातुः भद्रकाल्याः स्मृति-चिह्नं प्रदाय सम्मानितवन्तः।
---------------
हिन्दुस्थान समाचार