झारखंड उच्च न्यायालयस्य मुख्य न्यायाधीशो बाबा बैद्यनाथ मंदिरे कृतवान्पूजाम्अर्चनां च
झारखंडः, 19 अप्रैलमासः (हि.स.)। झारखण्ड-उच्च-न्यायालयस्य मुख्यन्यायाधीशः महेश शरदचंद्र सोनक रविवासरे स्वपरिवारसहितः बाबा बैद्यनाथ धाम-मन्दिरं गत्वा भगवान् बैद्यनाथस्य पूजाम् अर्चनां च कृत्वा आशीर्वादं प्राप्तवान्। तत्पूर्वं तीर्थपुरोहितैः वैदिकम
Chief Justice  jharkhand


झारखंडः, 19 अप्रैलमासः (हि.स.)।

झारखण्ड-उच्च-न्यायालयस्य मुख्यन्यायाधीशः महेश शरदचंद्र सोनक रविवासरे स्वपरिवारसहितः बाबा बैद्यनाथ धाम-मन्दिरं गत्वा भगवान् बैद्यनाथस्य पूजाम् अर्चनां च कृत्वा आशीर्वादं प्राप्तवान्।

तत्पूर्वं तीर्थपुरोहितैः वैदिकमन्त्रुच्चारणेन सह तस्य संकल्पः विधिवत् कृतः। अनन्तरं मुख्यन्यायाधीशेन द्वादश-ज्योतिर्लिङ्गेषु जलाभिषेकं कृत्वा श्रद्धया पूजाअर्चना सम्पन्ना।

अस्मिन् अवसरे उपस्थितेन मन्दिर-प्रभारी तथा अनुमण्डल-पदाधिकारी रवि कुमार महोदयेन मुख्यन्यायाधीशाय स्मृतिचिह्नम्, अङ्गवस्त्रं, तथा बाबा बैद्यनाथ-प्रसादः उपहारस्वरूपेण प्रदत्तः।

---------------

हिन्दुस्थान समाचार