(लीड) प्रधानमंत्रिणो मोदिनो नेतृत्वे सिंहस्थे 2028 विश्वं द्रक्ष्यति सनातनस्य वैभवम् - मोहन यादवः
- उज्जैने सिंहस्थस्य 2028 सज्जान्तर्गते जातं प्रथमं लोकार्पणं, मुख्यमंत्री अकरोत् हेलीपैडविश्रामगृहस्य लोकार्पणम् उज्जैनम्, 19 अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री मोहन यादव उक्तवान् यत् उज्जैन-नगर्यां सिंहस्थ 2028-महापर्वणि विश्वं अस
मुख्यमंत्री ने किया हेलीपैड विश्राम गृह का लोकार्पण


मुख्यमंत्री ने किया हेलीपैड विश्राम गृह का लोकार्पण


नगर निगम को 2.25 करोड़ रुपये की लागत की इलेक्ट्रिक व्हील लोडर मशीन की चाबी प्रदान की


मुख्यमंत्री ने जैन संत जिनेन्द्र महाराज से लिया आशीर्वाद


- उज्जैने सिंहस्थस्य 2028 सज्जान्तर्गते जातं प्रथमं लोकार्पणं, मुख्यमंत्री अकरोत् हेलीपैडविश्रामगृहस्य लोकार्पणम्

उज्जैनम्, 19 अप्रैलमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री मोहन यादव उक्तवान् यत् उज्जैन-नगर्यां सिंहस्थ 2028-महापर्वणि विश्वं अस्माकं सनातनधर्मस्य वैभवं द्रक्ष्यति। अस्माकं प्रयासः अस्ति यत् नरेंद्र मोदी-महाशयस्य नेतृत्वे अस्मिन् विश्वस्तरीये आयोजने सर्वेभ्यः श्रद्धालुभ्यः सम्यक् सुविधाः प्रदीयन्ताम् तथा पूर्णेन सनातनवैभवेन सह सिंहस्थमहापर्वणः सांस्कृतिक-धार्मिक-आयोजनं क्रियेत।

मुख्यमन्त्री डॉ. यादवः रविवासरे परशुराम जयंती तथा अक्षय तृतीया-इत्येतयोः पावनावसरे उज्जैन-नगर्यां सिंहस्थ 2028-सम्बद्धस्य प्रथमकार्यस्य लोकार्पण-समारोहे सम्बोधनं कुर्वन् आसीत्। तेन उक्तं यत् उज्जैन-नगर्यां बहवः विकास-कार्यक्रमाः प्रचलन्ति, येन नगरस्य नूतना छवि प्रकटिष्यते तथा समृद्धेः प्रतीकं भविष्यति। तेन ईश्वरं प्रति प्रार्थना कृता यत् अत्र प्रत्येकस्य गृहे सुखं शान्तिः वैभवं च स्थिरं भवतु।

अस्मिन् अवसरे तेन एककोटि-विंशतिलक्ष-रूप्यक-मूल्येन निर्मितस्य हेलिपद-विश्रामगृहस्य उद्घाटनं कृतम्। अस्मिन् विश्रामगृहे कार्यालय-कक्षः, जनसामान्येन सह संवादार्थं सभाकक्षः, पायलटानां कृते अपि कक्षाः निर्मिताः सन्ति। एषः हेलिपदः सिंहस्थ 2028-समये अतिथीनां जनप्रतिनिधीनां च आगमनार्थं तथा सामान्यजनानां विशिष्टातिथिभिः सह मिलनाय निर्मितः अस्ति।

उल्लेखनीयम् यत् अस्य नवनिर्मित-विश्रामगृहस्य निर्माणार्थं नगर-निगमाध्यक्षया कलावती-यादव-महोदयया निगम-निधेः पञ्चाशीतिलक्ष-रूप्यकाणां स्वीकृतिः प्रदत्ता, तथा मार्ग-निर्माणाय बाह्य-सौन्दर्यीकरणाय च पञ्चत्रिंशल्लक्ष-रूप्यकाणि अपि स्वीकृतानि। एवमेव समग्र-व्ययः एककोटि-विंशतिलक्ष-रूप्यकाणि अभवत्।

अस्य हेलिपद-विश्रामगृहस्य निर्माणेन मुख्यमन्त्रिणः उज्जैन-आगमने बहुविशिष्ट-अतिथीनां सत्कारार्थं वातानुकूलित-परिसरः उपलभ्यते, यत्र बैठक-व्यवस्था अपि सुलभा भविष्यति। तत्र वरिष्ठ-जनप्रतिनिधीनां शासन-प्रशासन-अधिकारीणां च समीक्षा-सभाः अपि आयोजयितुं शक्यन्ते।

सिंहस्थ 2028-सम्बद्धे हरित-स्वच्छ-उपक्रमे मुख्यमन्त्री डॉ. यादवः नगर-निगमाय द्विकोटि-पञ्चविंशतिलक्ष-रूप्यक-मूल्यस्य विद्युत्-चालित-व्हील-लोडर-यन्त्रस्य कुञ्जिकां प्रदत्तवान्। LiuGong India Pvt. Ltd.-नाम्ना संस्थया स्वस्य कॉर्पोरेट-सामाजिक-उत्तरदायित्व-योजनान्तर्गतं एतत् यन्त्रं प्रदत्तम्।

एतानि यन्त्राणि पूर्णतया बैटरी-चालितानि सन्ति, शून्य-उत्सर्जनयुक्तानि च। एतेषां साहाय्येन मार्गाणां सार्वजनिक-स्थलानां च सम्यक् स्वच्छता कर्तुं शक्यते, यत् सिंहस्थ-समये अतीव उपयोगी भविष्यति। एषा पहल उज्जैन-नगरं “हरित-स्वच्छ-नगर” इति रूपेण प्रतिष्ठापयितुं साहाय्यं करिष्यति।

अस्मिन् अवसरे विधायकः अनिल-जैन-कालूहेडा, महापौरः मुकेश-टटवाल, नगर-निगम-आयुक्तः अभिलाष-मिश्रः, अन्ये च अधिकारीणः उपस्थिताः आसन्।

पूर्वं मुख्यमन्त्री डॉ. यादवः चिमनगंज कृषि उपज मंडी-स्थलं गत्वा जैन-सन्तं जिनेन्द्र महाराज-महाशयं मिलित्वा आशीर्वादं प्राप्तवान्। तत्र जैन-समाजेन तस्य अभिनन्दनं कृतम्। सन्तः जिनेन्द्र-महाराजः धर्मदास-गणस्य वर्तमान-प्रवर्तकः अस्ति, तथा मालवा, राजस्थान-आदिषु प्रदेशेषु तस्य विचरणं भवति।

सः स्थानकवासी-परम्परायाः निष्ठः सन्तः अस्ति। अद्यतनकाले अक्षय तृतीया-महोत्सवस्य उपलक्ष्ये तस्य प्रवासकाले वर्षीतप-पारण-महोत्सवः अपि आयोजितः अस्ति।

---------------

हिन्दुस्थान समाचार