Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, १९ अप्रैलमासः (हि.स.)। मध्यप्रदेश-राज्यस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य रविवासरे राज्ये पर्यटनं धार्मिक-यात्राः च सुगमानि, सुरक्षितानि, आनन्ददायकानि च कर्तुं दिशि महत्त्वपूर्णं उपक्रमं कुर्वन् प्रातः १०:४५ वादने राजधानी-नगरस्य स्टेट्-हैङ्गरात् “पीएम-श्री-हेलि-पर्यटन-सेवा” अन्तर्गतं नूतन-क्षेत्रस्य (भोपाल-चंदेरी-ओरछा) विधिवत् शुभारम्भं करिष्यति।
जनसम्पर्क-अधिकारी अनुराग-उइके इत्यनेन सूचितं यत्, अस्मिन् अवसरे मुख्यमन्त्री डॉ.यादवः हेलिकॉप्टरविमानं हरित-ध्वजेन प्रेषयिष्यति तथा यात्रिभ्यः बोर्डिङ्ग-पास अपि प्रदास्यति।
जनसम्पर्क-अधिकारिणः अनुसारम्, एतत् नूतनं क्षेत्रं भोपालं भगवत: श्रीरामस्य राजनगरी ओरछा-नगरम् ऐतिहासिक-विरासतायाः ख्यातं चंदेरी-नगरं च संयोजयिष्यति। अनेन श्रद्धालवः श्रीरामराजा-मन्दिरे सुगमतया दर्शनार्थं गन्तुं शक्नुवन्ति, चंदेरी-नगरस्य सांस्कृतिक-परम्परां प्रसिद्ध-हस्तशिल्पं (चंदेरी-साड़ी) च अनुभवितुं शक्नुवन्ति।
अन्त्य-पर्यन्त-सेवा सप्ताहे पञ्चदिनानि सञ्चाल्यते
तेन उक्तं यत्, सेक्टर-२ अन्तर्गतं एषा सेवा सप्ताहे पञ्चदिनानि (बुधवासरे, गुरुवासरे, शुक्रवासरे, शनिवासरे, रविवासरे च) सञ्चाल्यते। यात्रिभ्यः भोपालतः चंदेरी-नगरं प्रति मूल्यं ₹५,५०० तथा भोपालतः ओरछा-नगरं प्रति ₹६,५०० निर्धारितम् अस्ति। अपरं च ₹१४,५०० मूल्यके विशेष-पैकेज टैक्सी-सेवा, वीआईपी-दर्शनम्, प्रसादः इत्यादयः ‘अन्त्य-पर्यन्त’ सुविधाः अपि समाविष्टाः सन्ति। चंदेरी-ओरछा-नगरयोः पर्यटकानां कृते ₹३,५०० मूल्ये ‘जॉय-राइड्’ सुविधा अपि उपलब्धा भविष्यति।
सुविधा सुरक्षा च सर्वोपरिजनसम्पर्क-अधिकारिणः अनुसारम्, पीपीपी-मॉडलेन सञ्चाल्यमानायां अस्यां सेवायां पर्यटकानां सुरक्षायाः विशेषः विचारः कृतः अस्ति। यात्रायै षट्-आसनयुक्तं आधुनिकं हेलिकॉप्टरं उपयुज्यते। गन्तव्य-स्थले होटल-व्यवस्था, भोजनम्, स्थानीय-भ्रमणार्थं मार्गदर्शकः च पूर्वमेव सुनिश्चिताः सन्ति। आरक्षणार्थं पर्यटकाः www.flyola.in तथा आईआरसीटीसी-पटले पञ्जीकरणं कर्तुं शक्नुवन्ति।
उल्लेखनीयम् अस्ति यत्, मुख्यमन्त्रिणा डॉ.यादवेन मध्यप्रदेश-स्थापना-दिवसे (१ नवम्बर २०२५) “पीएम-श्री-हेलि-पर्यटन-सेवा”इत्यस्य प्रारम्भः कृतः आसीत्। एषा सेवा अधुना आध्यात्मिक-क्षेत्रे इन्दौर-उज्जैन-ओंकारेश्वर-नगराणि तथा वन्यजीव-क्षेत्रे जबलपुर-कान्हा-बांधवगढ़-चित्रकूट-मैहर-नगराणि मध्ये सफलतया सञ्चाल्यते। अस्याः सेवायाः लाभं अद्यावधि २६४८ पर्यटकाः श्रद्धालवः च प्राप्तवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता