मध्यप्रदेशस्य मुख्यमन्त्री डॉ.यादवः अद्य जानापाव-स्थले ‘परशुराम-प्रकटोत्सवे’ सहभागी भविष्यति
भोपाल-नगरम्, १९ अप्रैलमासः (हि.स.)। मध्यप्रदेश-राज्यस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य रविवासरे भगवत: परशुरामस्य पावन-जन्मस्थले जानापाव (महू)-स्थले आयोजिते ‘परशुराम-प्रकटोत्सवे’ सहभागी भविष्यति। मुख्यमन्त्री अत्र भगवत: परशुराम-मन्दिरे पूजा-अर्चनां
भव्य और दिव्य श्रीपरशुराम-श्रीकृष्ण लोक


भोपाल-नगरम्, १९ अप्रैलमासः (हि.स.)। मध्यप्रदेश-राज्यस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य रविवासरे भगवत: परशुरामस्य पावन-जन्मस्थले जानापाव (महू)-स्थले आयोजिते ‘परशुराम-प्रकटोत्सवे’ सहभागी भविष्यति। मुख्यमन्त्री अत्र भगवत: परशुराम-मन्दिरे पूजा-अर्चनां कृत्वा राज्यस्य समृद्धये सुख-शान्तये च मंगलकामनाः करिष्यति।

जनसम्पर्क-अधिकारी अनुराग-उइके इत्यनेन सूचितं यत्, निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री डॉ. यादवः हेलिकॉप्टर-विमानेन अपराह्णे १:१५ वादने जानापावं प्राप्स्यति तथा ‘परशुराम-प्रकटोत्सवे’ सहभागी भविष्यति। सः जानापावस्य महाभारत-कालीन-अस्त्र-शस्त्राणां चक्रव्यूह-कलायाः आधारेण निर्मितां विशिष्टां प्रदर्शिनीम् उद्घाटयिष्यति। सः स्थानीय-सांस्कृतिक-धार्मिक-कार्यक्रमेषु अपि सहभागी भविष्यति तथा उपस्थितं जनसमुदायं सम्बोधयिष्यति।

जनसम्पर्क-अधिकारिणः अनुसारम्, संस्कृति-विभागेन श्रीकृष्ण-पाथेय-न्यासेन च आयोजिते अस्मिन् भव्ये समारोहे कला-भक्त्योः अद्भुतः संगमः द्रष्टुं शक्यते। कार्यक्रमे विख्यात-गायकः सवई-भट्टः स्व-दलेन सह मनोहरं भक्तिगानं प्रस्तोष्यति। अपि च पण्डित-विजय-शंकर-मेहता-रचितं वीरेंद्र-कुमार-निर्देशितं ‘परशुराम-नाट्य-लीला’ इत्यस्य सजीवं मंचनम् अपि भविष्यति, यत् भगवान् परशुरामस्य विराट-व्यक्तित्वं प्रकाशयिष्यति। कार्यक्रमे प्रवेशः पूर्णतया निःशुल्कः भविष्यति।

कार्यक्रमोपरान्तं मुख्यमन्त्री डॉ.यादवः अपराह्णे १:४० वादने धार-जिलां प्रति प्रस्थानं करिष्यति। ततः परं सः अपराह्णे ३:५५ वादने इन्दौर-विमानतलम् आगमिष्यति। इन्दौर-निवासे सः भगवान् परशुरामस्य शोभायात्रायां सहभागी भविष्यति, अन्येषु स्थानीय-कार्यक्रमेषु अपि भागं ग्रहीष्यति।

जानापावे विकसितो भवति भव्यः ‘श्रीपरशुराम-श्रीकृष्ण-लोकः’उल्लेखनीयम् अस्ति यत्, भगवत: परशुरामस्य जन्मस्थले जानापावे भव्यः दिव्यः च ‘श्रीपरशुराम-श्रीकृष्ण-लोकः’ विकसितः क्रियमाणः अस्ति। अस्य व्ययः १७.४१ कोटि-रूप्यकाणि निर्दिष्टः। भगवत: परशुरामस्य श्रीकृष्णस्य च जीवनं दर्शनं संदेशं च जनसामान्यं प्रति प्रसारयितुं अयं लोकः प्रमुखः आध्यात्मिक-पर्यटन-सांस्कृतिक-केन्द्ररूपेण विकसितः भवति।

अस्मिन् लोके भगवत: परशुरामस्य श्रीकृष्णस्य च कांस्य-प्रतिमाः स्थापयिष्यन्ते। जानापावे शिला-धातुभ्यां निर्मितं ३०-फुट-उन्नतं भव्यं द्वारं निर्मास्यते। कथा-कार्यक्रमाणां कृते कथा-मञ्चस्य निर्माणं भविष्यति। प्राङ्गणे गज़ीबो-चतुष्टयं, दृश्य-बिन्दवः, भूमिशोभा-रचना, पथमार्गाः अन्ये च विकास-कार्याणि अपि क्रियन्ते।

अत्र एकं भव्यं संग्रहालयं निर्मास्यते, यत् भगवान् श्रीकृष्णस्य जीवन-दर्शनाधारितं पौराणिक-महत्त्वं प्रदर्शयिष्यति। अस्मिन् लोके पञ्च दीर्घाः भविष्यन्ति—शस्त्र-दीर्घा, उत्पत्ति-दीर्घा, स्वरूप-दीर्घा, सन्तुलन-दीर्घा, ध्यान-दीर्घा च—यासु भगवान् परशुराम-श्रीकृष्णयोः विविधाः कलाः दर्शयिष्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता