Enter your Email Address to subscribe to our newsletters

- सामूहिक विवाह सम्मेलने सहभागितां कृत्वा अनेक कार्याणां भूमिपूजनमथ च लोकार्पणं करिष्यति मुख्यमंत्री
भोपालम्, 19 अप्रैलमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादवोऽद्य रविवासरे उज्जैन नगरे प्रवासकाले अक्षय तृतीया इति पावनस्य अक्षयमुहूर्तस्य अवसरः सिंहस्थ 2028 इत्यस्य आयोजनस्य सिद्धतां त्वरितुं बहूनां महत्त्वपूर्णविकासकार्याणां भूमिपूजनं तथा सम्पन्नानां त्रयाणां कार्याणां लोकार्पणं करिष्यति।
निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री डॉ यादव पूर्वाह्णे 11:30 वादने उज्जैनं आगत्य पुलिसलाइनस्थे हेलीपेडे विश्रामगृहस्य लोकार्पणं करिष्यति। ततः परं सः हामूखेड़ीस्थे सामूहिकविवाहसम्मेलने सहभागित्वं करिष्यति। अनन्तरं सः कार्तिकमेलाक्षेत्रे अपि सामूहिकविवाहकार्यक्रमे भागं ग्रहीष्यति तथा तत्र विविधनिर्माणकार्याणां भूमिपूजनं लोकार्पणं च करिष्यति।
उल्लेखनीयम् यत् एतेषां कार्याणां माध्यमेन नगरस्य अधोसंरचना अधिकं सुदृढा भविष्यति, यातायातव्यवस्था सुलभा भविष्यति, पर्यटनस्य संवर्धनं भविष्यति तथा सिंहस्थस्य भव्यतया आयोजनस्य सिद्धयः समयात् पूर्वमेव सम्पन्नाः भविष्यन्ति।
मुख्यमन्त्री डॉ यादव 156.23 कोटिरूप्यकाणां व्ययेन निम्नलिखितकार्याणां भूमिपूजनं करिष्यति—
हरसिद्धिपालतः रामघाटमार्गपर्यन्तं मार्गविस्तारणनिर्माणकार्यं 21.08 कोटिरूप्यकाणि।
गुदरीचौराहात् पानदरिबा कहारवाड़ी मार्गेण हरसिद्धिपालपर्यन्तं मार्गविस्तारणं 14.43 कोटिरूप्यकाणि।
बंबईवाले धर्मशालातः दानीगेटपर्यन्तं मार्गविस्तारणं 13.52 कोटिरूप्यकाणि।
मकोडिया आमचौराहात् विराटनगरमार्गेण कानीपुरातराणामार्गपर्यन्तं मार्गनिर्माणं 49.64 कोटिरूप्यकाणि।
अमृत 2.0 योजनान्तर्गतं नीलगंगासरोवरस्य कायाकल्पः 4.55 कोटिरूप्यकाणि।
अमृत 2.0 योजनान्तर्गतं सोलहसागरझीलस्य जीर्णोद्धारः 1.11 कोटिरूप्यकाणि।
मुख्यमन्त्री नगरीयक्षेत्र अधोसंरचनानिर्माणयोजनान्तर्गतं कालिदासउद्यानस्य विकासकार्यं 1.59 कोटिरूप्यकाणि।
विक्रमकीर्तिसंग्रहालयस्य आन्तरिकसज्जा प्रदर्शनव्यवस्था संरक्षणकार्यं च 8.55 कोटिरूप्यकाणि।
महाकाल लोक क्षेत्रे पादचारिमार्गे फेब्रिकशेडसंरचनानिर्माणं 13.30 कोटिरूप्यकाणि।
विक्रमकीर्तिमन्दिरसभागार बांगड़भवनपरिसरादीनां जीर्णोद्धारसंरक्षणनवनिर्माणकार्यं 7.73 कोटिरूप्यकाणि।
एवमेव 20.73 कोटिरूप्यकाणां व्ययेन सम्पन्नकार्याणां लोकार्पणमपि करिष्यति, यत्र कोठीमार्गसंवर्धनं, स्वच्छतायन्त्रप्रदानं तथा हेलीपेडप्रतीक्षालयनिर्माणं प्रमुखानि सन्ति।
एते कार्याः सिंहस्थ 2028 इत्यस्य भव्यतां दृष्ट्वा क्रियमाणाः सन्ति, येन श्रद्धालुभ्यः उत्तमसुविधाः प्रदास्यन्ते, नगरस्य स्वच्छता वर्धिष्यते तथा यातायातव्यवस्था सुदृढा भविष्यति।
अक्षय तृतीया इति पावने पर्वणि अस्मिन् वर्षे उज्जयिन्यां धार्मिकआस्था सामाजिकसमरसता शुभसंयोगानां च विशेषः संगमः दृश्यते। अद्य कार्तिकमेलाक्षेत्रे अबूझमुहूर्ते सामूहिकविवाहनिकाहयोः भव्यः आयोजनः अपि भविष्यति, यत्र 112 युगलानि दाम्पत्यजीवनं प्रवेक्ष्यन्ति।
ज्योतिषविदां मतानुसारं अस्मिन् वर्षे तृतीया तिथिः रोहिणीनक्षत्रेण सह विशेषसंयोगं 20 एप्रिल दिने करिष्यति, यः दानकर्मणि अत्यन्तं शुभः मन्यते। 19 एप्रिल दिने तृतीया तिथेः पूर्वमेव आगमनात् अधिकांशविवाहाः तस्मिन्नेव दिने सम्पन्नाः। अक्षय तृतीया अबूझमुहूर्तरूपेण प्रसिद्धा अस्ति, यस्मिन् विना विशेषमुहूर्तेन अपि सर्वाणि शुभकार्याणि कर्तुं शक्यन्ते।
अस्मिन्नेव अवसरे मुख्यमन्त्री कन्याविवाहयोजनान्तर्गतं सामूहिकविवाहनिकाहकार्यक्रमः आयोजितः अस्ति, यत्र मुख्यमन्त्री मोहन यादव नवदम्पतीनां आशीर्वादं दास्यति। अस्मिन् आयोजने 100 युगलानि हिन्दूरीतिना विवाहं करिष्यन्ति, 12 युगलानि निकाहमार्गेण दाम्पत्यजीवनं प्रारभिष्यन्ते। राज्यसरकारेण प्रत्येकस्मै नवदम्पत्ये 49 सहस्ररूप्यकाणां आर्थिकसहायता चेकद्वारा प्रदास्यते, येन ते स्वजीवनस्य नवप्रारम्भं सुदृढतया कर्तुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार