Enter your Email Address to subscribe to our newsletters

काठमाण्डू-नगरम्, १९ अप्रैलमासः (हि.स.)। विश्वस्य दशम-उच्चतमः पर्वतः अन्नपूर्णा-हिमालः अस्मिन् वर्षे वसन्तकालीन-आरोहणस्य औपचारिक-रूपेण आरम्भः अभवत्। ८,०९१ मीटर-उच्चः अयं पर्वतः म्याग्दी-जनपदे अन्नपूर्णा-क्षेत्रे स्थितः अस्ति। सेवेन-समिट-ट्रेक्-संस्थायाः लाक्पा-शेर्पा-नेतृत्वे सप्त नेपालीयाः तथा पञ्च विदेशी-पर्वतारोहकाः युक्तः दलः रविवासरे प्रातः सूर्यस्य प्रथम-किरण-समये एव अन्नपूर्णायाः शिखरं सफलतया आरोहणं कृतवान्।
संस्थाया: अनुसारं विदेशी-पर्वतारोहकेषु कनाडा-देशस्य चार्ल्स-पेज, रूस-देशस्य वलेरी-बाबानोव, व्लादिमिर-अफानासेव, यूरी-कुग्लोव तथा अजरबैजान-देशस्य इस्फारली-असुरली सम्मिलिताः आसन्। नेपाली-दले लाक्पा-सहिताः छेवाङ, दावा-नर्बु, पासाङ-दुंगपा, छाङुबा, तारामान तथा पासाङ-शेर्पा आसन्।
रविवासरे प्रातः प्रायः ७:३० वादने नीदरलैण्ड-देशस्य तथा ऑस्ट्रेलिया-देशस्य द्वौ पर्वतारोहकौ, एकेन शेर्पा-मार्गदर्शकेन सह, अपि शिखरं प्राप्तवन्तौ। मौरिस-हर्जोग-ट्रेक्-मार्गस्य अभियन्त्रा तेजबहादुर-गुरुङेन उक्तं यत् अस्य ऋतॊः प्रथमः दलः सफलतया आरोहणं सम्पन्नवान्। अधुना आधार-शिविरं प्रति भ्रमणार्थं गच्छतां पर्यटकानां संख्या अपि वर्धिष्यते।
अस्मिन् वर्षे अन्नपूर्णा-हिमालस्य आरोहणार्थं नेपाल-पर्यटन-विभागात् चत्वारः समूहाः, कुलतः २७ पर्वतारोहकाः, अनुमतिं प्राप्तवन्तः। तेषां माध्यमेन १ कोटि २० लक्ष ४९ सहस्र १७५ रूप्यकाणां राजस्वं प्राप्तम्। गत-वर्षस्य वसन्त-ऋतौ अन्नपूर्णा-आरोहणार्थं ६६ जनाः अनुमतिं प्राप्तवन्तः।
सन् १९५० तमे वर्षे फ्रान्स-देशस्य मौरिस-हर्जोगेन प्रथमवारं अन्नपूर्णा-शिखरस्य सफल-आरोहणं कृतम्। तस्य त्रयः वर्षाणि अनन्तरं, १९५३ तमे वर्षे एडमण्ड-हिलारी तथा तेन्जिंग-नोर्गे-शेर्पा इत्येताभ्यां विश्वस्य उच्चतम-शिखरं सगरमाथा (एवरेस्ट) इति पर्वतः ऐतिहासिक-रूपेण आरोहितः। अन्नपूर्णा-हिमाले आरब्धः अयं नवीनः आरोहण-ऋतुः न केवलं पर्वतारोहकानां कृते उत्साहस्य विषयः अस्ति, अपि तु नेपालस्य पर्यटन-क्षेत्रस्य कृते अपि अत्यन्तं महत्त्वपूर्णः मन्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता