Enter your Email Address to subscribe to our newsletters

नवदेहली-नगरम्, १९ अप्रैलमासः (हि.स.)। प्रधानमन्त्रीः नरेन्द्र-मोदी आन्ध्र-प्रदेशस्य उपमुख्यमन्त्रिणः पवन-कल्याणेन सह दूरभाषेण संवादं कृत्वा तस्य स्वास्थ्य-स्थितेः विषये सूचनां लब्धवान्।
प्रधानमन्त्री उक्तवान् यत् पवन-कल्याणः अत्यन्तं साहसी अस्ति, तस्य च दृढविश्वासः अस्ति यत् सः शीघ्रमेव स्वस्थः भविष्यति। सः तस्य शीघ्र-आरोग्य-लाभाय अपि शुभकामनाः व्यक्तवान्।
प्रधानमन्त्री ‘एक्स’ माध्यमे अपि अवदत् यत् तेन पवन-कल्याणेन सह संवादः कृतः, तस्य हालचालं ज्ञातम्, तस्य उत्तम-स्वास्थ्याय च प्रार्थना कृता। उल्लेखनीयम् अस्ति यत् आन्ध्र-प्रदेशस्य अभिनेता तथा उपमुख्यमन्त्री पवन-कल्याणस्य शनिवासरे आकस्मिकतया स्वास्थ्य-स्थिति अवनता अभवत्, यस्य परिणामस्वरूपं शल्यक्रिया कर्तव्या अभवत्। कथ्यते यत् सः गत-किञ्चित्-मासेभ्यः अस्वस्थः आसीत्।
जनसेना-पक्षस्य अनुसारम्, शुक्रवासरे एकस्मिन् आधिकारिक-सभायां तस्य स्वास्थ्यं दूषितम् अभवत्, ततः पश्चात् तं चिकित्सालये भर्ती कृतवन्तः। चिकित्सकीय-परीक्षणानन्तरं तथा एम.आर.आई. स्कैन-परीक्षणस्य अनन्तरं तस्य शल्यक्रिया सम्पन्ना।
हिन्दुस्थान समाचार / अंशु गुप्ता