Enter your Email Address to subscribe to our newsletters

नवदेहली, 19 अप्रैलमासः (हि.स)।केन्द्रसर्वकारः पेन्शन-क्षेत्रे प्रत्यक्ष-विदेशी-निवेशस्य सीमां वर्धयित्वा १०० प्रतिशतं (१००%) यावत् कर्तुं विचारं करोति। अस्मिन् सन्दर्भे विधेयकं संसदः आगामिसत्रे प्रस्तुतं कर्तुं शक्यते।
सूत्रैः ज्ञातं यत् एतत् पदक्षेपं बीमा-क्षेत्रस्य अनुरूपं भविष्यति, यत्र सर्वकारेण पूर्वमेव शतप्रतिशतं (१००%) प्रत्यक्ष-विदेशी-निवेशस्य अनुमतिः दत्ता अस्ति। गते वर्षे संसदा बीमा-क्षेत्रे एफ.डी.आई. सीमां ७४ प्रतिशतात् वर्धयित्वा १०० प्रतिशतं कर्तुं विधेयकं स्वीकृतम् आसीत्।
सूत्रानुसारं पेन्शन-कोष-विनियामक-एवं-विकास-प्राधिकरणस्य २०१३ तमस्य वर्षस्य अधिनियमे संशोधनं कृत्वा पेन्शन-क्षेत्रे एफ.डी.आई.-सीमावर्धनेन सम्बद्धः प्रस्तावः वर्षाकालीन-शीतकालीनसत्रे वा आनेतुं शक्यते। सम्प्रति पेन्शन-कोषे एफ.डी.आई.-सीमा ४९ प्रतिशतं (४९%) अस्ति। एतदतिरिच्य प्रस्तावित-संशोधन-विधेयके एन.पी.एस. ट्रस्ट् इत्यस्य पी.एफ.आर.डी.ए. इत्यस्मात् पृथक्करणस्य प्रावधानमपि सम्मिलितं भवितुं शक्नोति। वर्तमानसमये एन.पी.एस.-ट्रस्टस्य शक्तयः, कार्याणि, उत्तरदायित्वाणि च २०१५ तमस्य वर्षस्य नियमानुसारं निर्णीतानि सन्ति, यानि भविष्ये कस्यापि दानशील-न्यासस्य वा कम्पनी-नियमस्य वा अन्तर्गतं आनेतुं शक्यन्ते
---------------
हिन्दुस्थान समाचार