बस्तर-क्षेत्रे “सोशल-मीडिया-क्रिएटर्स-मीट्” इत्यस्य आयोजनं सम्पन्नम्
जगदलपुर-नगरम्, १९ अप्रैलमासः (हि.स.)। “डिजिटल-डेमोक्रेसी-डायलॉग” इत्यस्य अन्तर्गतं बस्तर-सम्भागे “सोशल-मीडिया-क्रिएटर्स-मीट्” इत्यस्य आयोजनं रविवासरे आरक्षक-विभागस्य शौर्य-भवने जगदलपुरे सम्पन्नम्। अस्मिन् कार्यक्रमे देशस्य विविधेभ्यः भागेभ्यः यूट्य
बस्तर में “सोशल मीडिया क्रिएटर्स मीट” का हुआ आयोजन


जगदलपुर-नगरम्, १९ अप्रैलमासः (हि.स.)। “डिजिटल-डेमोक्रेसी-डायलॉग” इत्यस्य अन्तर्गतं बस्तर-सम्भागे “सोशल-मीडिया-क्रिएटर्स-मीट्” इत्यस्य आयोजनं रविवासरे आरक्षक-विभागस्य शौर्य-भवने जगदलपुरे सम्पन्नम्। अस्मिन् कार्यक्रमे देशस्य विविधेभ्यः भागेभ्यः यूट्यूब-निर्मातारः, इन्स्टाग्राम-प्रभावकाः तथा डिजिटल-विषय-निर्मातारः सहभागिनः अभवन्। कार्यक्रमस्य मुख्यातिथिः बस्तर-परिक्षेत्रस्य आईजी सुन्दरराज-पी तथा बस्तर-जनपदस्य उपायुक्तः आकाश-छिकारा आसीत्।

उभाभ्यां अधिकारिभ्यां क्रिएटर्स-सह संवादं कृत्वा बस्तरस्य पूर्व-स्थितिः परिवर्तमान-परिस्थितयः च, पर्यटन-सम्भावनाः, परिवहन-व्यवस्था, व्यापार-गतिविधयः, आदिवासी-संस्कृतिः, बस्तर-दशहरा, हस्तशिल्पम् तथा प्राकृतिक-सौन्दर्यम् इत्यादिषु विषये सूचना प्रदत्ता। आईजी सुन्दरराजेन बस्तर-सम्भागस्य पूर्व-स्थितिः, नक्सल-गतिविधयः, तैः विकासात् दूरी, नक्सल-मुक्तेः अनन्तरं बस्तरस्य परिवर्तनं तथा अन्याः सम्भावनाः इत्यादीनि विवृतानि। क्रिएटर्स् अपि बस्तर-विषये स्व-विचारान् शङ्काः च अधिकारिभ्यः पृष्टवन्तः तथा समाधानं प्राप्तवन्तः।

अस्मिन् अवसरे आरक्षक-अधीक्षकः शलभ-सिन्हा, जनपद-पञ्चायत-सीईओ सुकमा मुकुन्द-ठाकुरः, जनपद-पञ्चायत-सीईओ बीजापुर नम्रता-चौबे इत्यादयः अन्ये अधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता