Enter your Email Address to subscribe to our newsletters

देहरादून-नगरम्, १९ अप्रैलमासः (हि.स.)। उत्तराखण्ड-राज्यस्य चारधाम-यात्रां हेमकुण्ड-साहिब-यात्रां च प्रति श्रद्धालूनां मध्ये अत्यधिकः उत्साहः आस्था च दृश्यते। अस्मिन् वर्षे चारधाम-यात्रायाः कृते अधुना यावत् आहत्य १९.५२ लक्षाधिकाः श्रद्धालवः विभिन्न-धामानां कृते पञ्जीकरणं कृतवन्तः।
रविवासर-सायं पर्यटन-विभागेन प्रकाशितानां विवरणानुसारं केदारनाथ-धाम्नः कृते सर्वाधिकं ६.८० लक्षाः श्रद्धालवः पञ्जीकृतवन्तः, यदा बद्रीनाथ-धाम्नः कृते ५.७५ लक्षाः, गङ्गोत्री-धामस्य कृते ३.४३ लक्षाः, यमुनोत्री-धाम्नः कृते ३.३३ लक्षाः, तथा हेमकुण्ड-साहिबस्य कृते प्रायः १९ सहस्र पञ्जीकरणानि अभवन्। रविवासरात् गङ्गोत्री-यमुनोत्री-धामयोः उद्घाटनेन सह चारधाम-यात्रायाः आरम्भः अभवत्। यात्रायाः प्रारम्भिक-दिनेभ्यः एव बहुसंख्यकाः श्रद्धालवः आगमिष्यन्ति इति सम्भावना अस्ति।
यमुनोत्री-गङ्गोत्री-धाम्नोः कृते २० तथा २१ अप्रैलमासयोः आहत्य २८,७२३ तीर्थयात्रिणां पञ्जीकरणं कृतम्। उत्तराखण्डस्य विभिन्नेषु पञ्जीकरण-केन्द्रेषु अपि यात्रिणां सम्मर्दः दृश्यते। केवलं एकस्मिन् दिने ३,६९८ श्रद्धालवः ऑफलाइन-पञ्जीकरणं कृतवन्तः, यत्र हरिद्वार-ऋषिकेश-केन्द्रे प्रमुखे स्तः।
सर्वकारेण यात्रिणां सौविध्यर्थं १३६४ इति सहायक-संख्या अपि प्रकाशिताः, येन यात्रासम्बद्धा सूचना सहायता च प्राप्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता