Enter your Email Address to subscribe to our newsletters

वाराणसी, 19 अप्रैलमासः (हि.स.)। वैशाख-मासस्य शुक्ल-पक्षस्य तृतीयायां रविवासरे नमामि-गङ्गे-कार्यक्रमस्य स्वयंसेवक-सदस्यैः काश्याः प्राचीन-विष्णु-तीर्थे बिन्दु-माधव-क्षेत्रे विधि-विधानपूर्वकं आरती क्रियते स्म। भगवानः श्री-हरि-नारायण-विष्णोः बिन्दु-माधव-स्वरूपस्य तथा माता-लक्ष्म्याः, भगवान् गणेशस्य च विधिवत् पूजन-अर्चनं कृत्वा भारतस्य सुख-समृद्ध्यर्थं प्रार्थना कृता।
अस्मिन् अवसरे पर्यावरण-संरक्षणस्य अपि कामना कृता। बिन्दु-माधवात् ‘आरोग्य-भारत’-इति अभिलाषा प्रकटिता। “ॐ नमो भगवते वासुदेवाय”, “ॐ नमो नारायणाय” तथा “शान्ताकारं भुजङ्गशयनं पद्मनाभं सुरेशं, विश्वाधारं गगन-सदृशं मेघवर्णं शुभाङ्गम्” इत्यादीनां मन्त्राणां जपेन भगवान् विष्णुः तुष्टुं प्रयासः कृतः।
प्राचीन-विष्णु-तीर्थे पूजन-अर्चनानन्तरं दलस्य सदस्यैः पञ्चगङ्गा-घाटे स्वच्छता-अभियानं अपि सञ्चालितम्। स्वच्छतां संस्कारेषु समावेशयितुं आह्वानं कृतम्।
अभियाने सहभागी गङ्गा-सेवकः राजेश-शुक्लः एतत् अवदत् यत् भगवान् विष्णोः समीपे प्रार्थना कृता यत् सः भारतस्य रक्षां करोतु, देशाय सुखं, समृद्धिं, शान्तिं च ददातु, नागरिकान् स्वस्थाः सुखिनश्च करोतु, अस्माकं संस्कृतिं परम्परां च रक्षतु, सर्वेभ्यः संकटेभ्यः देशं त्रातु। वयं तस्य कृपां आशीर्वादं च याचामहे।
अस्मिन् आयोजनमध्ये बिन्दु-माधव-मन्दिरस्य महन्तः पं. मुरलीधर-पटवर्धनः, वीरेन्द्र-सिंहः, सुशील-दीक्षितः, अभिजीत-सिंहः, आनन्द-सिंहः इत्यादयः अपि सहभागिनोऽभवन्।
हिन्दुस्थान समाचार