उपराष्ट्रपतेः राधाकृष्णन् इत्यस्य कोलंबोविमानस्थानके अकरोत् स्वागतम्
नव दिल्ली, 19 अप्रैलमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन रविवासरे द्विदिवसीय-आधिकारिक-भ्रमणेन कोलंबो नगरे आगतः। एषा तस्य श्रीलंका देशस्य प्रति प्रथमा आधिकारिक-द्विपक्षीय-यात्रा अस्ति। विदेशमन्त्रालयस्य अनुसारम् विमानतले तस्य भव्यं पारम्प
उपराष्ट्रपति सीपी राधाकृष्णन  की फाइल फोटो


नव दिल्ली, 19 अप्रैलमासः (हि.स.)।

उपराष्ट्रपतिः सी.पी. राधाकृष्णन रविवासरे द्विदिवसीय-आधिकारिक-भ्रमणेन कोलंबो नगरे आगतः। एषा तस्य श्रीलंका देशस्य प्रति प्रथमा आधिकारिक-द्विपक्षीय-यात्रा अस्ति। विदेशमन्त्रालयस्य अनुसारम् विमानतले तस्य भव्यं पारम्परिकं च स्वागतं कृतम्। कूटनीतिकदृष्ट्या अत्यन्तं महत्त्वपूर्णम् अस्ति।

कोलंबो-नगरं प्रति तस्य आगमने श्रीलङ्कायाः उच्च-अधिकारीणः तं स्वागतवन्तः। अस्मिन् अवसरे प्रसिद्धं पारम्परिकं काण्डीयन-नृत्यं प्रदर्शितम्, यत् उभयोः देशयोः मध्ये गाढां सांस्कृतिक-साम्यता सूचयति।

द्विपक्षीय-सभायां उपराष्ट्रपतिः अनुरा कुमारा दिसानायके तथा डॉ. हरिणी अमरसूर्या सहित अन्यैः शीर्ष-नेतृभिः सह उच्च-स्तरीया वार्ता करिष्यति। तस्मात् अतिरिक्तं भारत-सरकारस्य साहाय्येन निर्मितस्य भारतीय-आवास-परियोजनायाः तृतीय-चरणस्य अन्तर्गतं निर्मितानि गृहाणि औपचारिकतया तमिल-समुदायस्य सदस्येभ्यः प्रदास्यन्ते।

राधाकृष्णनः भारतीय-मूलस्य तमिल-समुदायस्य नेतृभिः तथा उत्तर-पूर्व-क्षेत्रस्य प्रतिनिधिभिः सह संवादं करिष्यति। सः कोलंबो-नगरे भारतीय-प्रवासिनः अपि सम्बोधयिष्यति।

अस्य यात्राम् उद्देश्य उभयोः देशयोः मध्ये शताब्दीनां पुरातनान् सभ्यतागत-जन-सम्बन्धान् अधिकं दृढीकर्तुम् अस्ति।

---------------

हिन्दुस्थान समाचार