Enter your Email Address to subscribe to our newsletters


देहरादूननगरम्, ०२ अप्रैलमासः (हि.स.) – हनुमज्जन्मोत्सवस्य अवसरे द्रोणनगरी देहरादूननगरे गुरुवासरे सर्वथा राममयी अभवत्। नगरस्य विभिन्न-क्षेत्रेषु आदिवसं धार्मिक-शोभायात्राः तथा भजन-कीर्तन-कार्यक्रमाः आयोजिताः, येषु बहुसंख्यकाः श्रद्धालवः सहभागिनः अभवन्। “जय-श्रीराम” तथा “जय-बजरंगबली” इति जयकारैः सम्पूर्णं वातावरणं गुंजितम्।
प्रातःकालात् एव मन्दिरेषु विशेष-पूजार्चना, हनुमान-पाठश्च आरब्धः। प्रमुख-मन्दिरेषु श्रद्धालूनां दीर्घाः पङ्क्तयः दृष्टाः। विभिन्न-सामाजिक-धार्मिक-संघटनैः शोभायात्राः निर्गताः, येन सहारनपुर-चतुष्पथः, प्रिन्स- चतुष्पथः, घंटाघर, दर्शनलाल- चतुष्पथः, झण्डा-बाजार, कांवली-मार्गेषु यातायातः अपि प्रभावितः। शोभायात्रासु सुसज्जिताः रथाः, प्रदर्शिन्यः तथा धार्मिक-ध्वजाः आकर्षणस्य केन्द्रम् अभवन्। अनेकस्थलेषु भण्डार-प्रसाद-वितरणम् अपि आयोजितम्।
शिवाजी-धर्मशालातः श्री-बालाजी-महाराजस्य षोडशतमी भव्य-शोभायात्रा निर्गता। अस्मिन् कार्यक्रमे मथुरा-वृन्दावन-दिल्ली-पंजाब-हिमाचल-प्रदेशेभ्यः आगताः कलाकाराः धार्मिक-प्रस्तुतयः प्रदर्शितवन्तः। जामुनवाला-स्थित-एकादशमुखी-हनुमान-मन्दिरे, प्राचीन-हनुमान-मन्दिरे तथा माता-वैष्णो-देवी-गुफा-मन्दिरे विशेष-पूजा सम्पन्ना।
बजरंग-दलेनापि धार्मिक-यात्राः आयोजिताः, यस्मिन् सहस्रशः जनाः सहभागिनः अभवन्। कार्यक्रमे हनुमान-चालीसा-पाठः कृतः, ततः धार्मिक-ध्वजेन सह यात्रा नगर-भ्रमणं कृत्वा पुनः प्रारम्भ-स्थले समाप्ता।
एवमेव हनुमज्जन्मोत्सवस्य अवसरे राज्यपालः लेफ्टिनेंट-जनरल गुरमीत-सिंहः (सेनि) तथा प्रथम-महिला गुरमीत-कौर झाझरा-स्थित-श्री-सिद्ध-हनुमान-मन्दिरे, बालाजी-धाम्नि तथा सेलाकुई-स्थित-श्री-खाटू-श्याम-मन्दिरे दर्शनं कृत्वा विधिवत् पूजार्चनां कृतवन्तौ। तौ प्रदेशवासिनां सुख-समृद्धि-स्वास्थ्यस्य कामनां कृतवन्तौ।
हिन्दुस्थान समाचार / अंशु गुप्ता