उत्तरप्रदेशस्य तराई-जनपदेषु आगता श्वेतक्रान्तिः, ५१ सहस्र महिलाः उद्यमिन्यः अभवन्
लखनऊनगरम्, ०२ अप्रैलमासः (हि.स.)। योगी-आदित्यनाथ-सर्वकारस्य नव-वर्षीय-कार्यकाले विकासस्य परिणामरूपेण उत्तरप्रदेशस्य तराई-क्षेत्रेषु दुग्ध-व्यवसायस्य विस्तारः जातः। बरेली-लखीमपुरखीरी-पीलीभीत-शाहजहाँपुर-सीतापुर-रामपुर-जनपदेषु १५०० ग्रामेषु प्रसृतस्य
समाचार से जुड़ा छायाचित्र


लखनऊनगरम्, ०२ अप्रैलमासः (हि.स.)। योगी-आदित्यनाथ-सर्वकारस्य नव-वर्षीय-कार्यकाले विकासस्य परिणामरूपेण उत्तरप्रदेशस्य तराई-क्षेत्रेषु दुग्ध-व्यवसायस्य विस्तारः जातः। बरेली-लखीमपुरखीरी-पीलीभीत-शाहजहाँपुर-सीतापुर-रामपुर-जनपदेषु १५०० ग्रामेषु प्रसृतस्य अस्य व्यवसायस्य माध्यमेन ५१ सहस्रशः महिलाः उद्यमिन्यः अभवन्, आत्मनिर्भरत्वस्य नूतनम् उदाहरणं च स्थापितवन्त्यः। एतासां महिलानां धनागारेषु प्रतिमासं ०३, १३, २३ तिथिषु धनराशिः प्रेष्यते।

सृजनी-एमपीसीएल-नेतृत्वे प्रतिदिनं प्रातःकाले दुग्ध-संग्रहणं क्रियते। स्वयंसहायता-समूहानां माध्यमेन महिलाः उत्पादनात् आरभ्य संग्रहणं विपणनं च स्वयमेव वहन्ति। अस्य परिणामस्वरूपं क्षेत्रे प्रतिदिनं एक-लक्ष-लीटरात् अधिकं दुग्ध-व्यवसायः भवति, अद्यपर्यन्तं च महिलाभिः सपाद्-द्वि-शत-कोटि-रूप्यकाधिकं व्यापारं कृतम्।

उत्तरप्रदेश-राज्य-ग्रामीण-आजीविका-अभियानस्य महत्त्वपूर्णया भूमिकया महिलाभ्यः प्रशिक्षणं वित्तीय-सहायता च प्रदत्ता, येन ताः ग्राम-अर्थव्यवस्थायाः प्रमुख-संचालिकाः अभवन्।

प्रदेश-स्तरेऽपि एतत् परिवर्तनं दृष्टिगोचरम्। उत्तरप्रदेशः दुग्ध-उत्पादने देशे अग्रणी जातः, यत्र ग्रामीण-महिलाभिः प्रतिदिनं प्रायः १० लक्ष-लीटर-दुग्धस्य संग्रहणं क्रियते। एकत्रिंशत् जनपदेषु महिलाभिः पञ्च-सहस्र-कोटि-रूप्यक-परिमितं व्यापारं कृतम्, षट्-सहस्राधिक-ग्रामेषु च एषा नमूना अत्यन्तं सफलः अभवत्।

प्रदेश-सर्वकारस्य प्रवक्ता अवदत् यत् तराई-क्षेत्रस्य एषा श्वेत-क्रान्तिः केवलम् आर्थिक-उन्नतेः कथा न, अपितु सामाजिक-परिवर्तनस्यापि सशक्तम् उदाहरणम् अस्ति। महिलाः आत्मनिर्भराः भूत्वा स्व-परिवारान् प्रदेशस्य अर्थव्यवस्थां च नूतनां गतिं ददति।

हिन्दुस्थान समाचार / अंशु गुप्ता