Enter your Email Address to subscribe to our newsletters

आसनसोलम्, 02 अप्रैलमासः (हि. स.)।आसनसोल-नगरे शिक्षाजगतः समाजस्य च मध्ये संवादं सुदृढीकर्तुं बुधवासरे सायंकाले नगरस्य प्रतिष्ठिते होटल-ग्रैण्ड् इत्यत्र “पश्चिमबङ्ग-एकेडेमिया-कॉन्क्लेव” इति नाम्ना भव्यः कार्यक्रमः आयोजितः। अस्मिन् सम्मेलनमध्ये राज्यस्य विभिन्नभागेभ्यः आगताः द्विशताधिकाः प्राध्यापकाः शिक्षाशास्त्रिणः च सक्रियतया सहभागं कृतवन्तः।
कार्यक्रमस्य मुख्य-अतिथिः राज्यस्य वरिष्ठ-नेता मलय-घटकः आसीत्। सः स्वस्य मन्त्रीमण्डलस्थायां पञ्चदशवर्षेषु आसनसोल-नगरे सम्पन्नानां विकासकार्याणां विस्तृतं वर्णनं कृत्वा शिक्षाक्षेत्रे शासनस्य योगदानं प्रकाशितवान्।
अस्मिन् सम्मेलनमध्ये पश्चिमबङ्ग-विद्यालय-महाविद्यालय-विश्वविद्यालय-प्राध्यापक-संघस्य जिलाध्यक्षः डॉ बीरू रजकः, टीडीबी-कोलेजस्य प्राचार्यः डॉ संजीव पाण्डेयः, आसनसोल-गर्ल्स-कोलेजस्य प्राचार्या डॉ स्वाति चक्रवर्ती, कुल्टी-कोलेजस्य प्राचार्यः डॉ शुभ्रांशु पान, बिराटी-कोलेजस्य प्राचार्यः डॉ दीपक बिस्वास तथा दुर्गापुर-महिला-कोलेजस्य प्राचार्या डॉ महानन्दा काञ्जीलाल इत्यादयः अनेकाः प्रमुखाः शिक्षाविदः उपस्थिताः आसन्।
स्वस्य भाषणे डॉ बीरू रजकः अध्यापकान् आगामी-निर्वाचने सक्रियतया भागं गृह्णीयुः इति आह्वानं कृतवान्। सः ऑल-इण्डिया-तृणमूल-काङ्ग्रेस् दलस्य समर्थनार्थं तथा मलय-घटकस्य पक्षे प्रचारं कर्तुं प्रेरितवान्। तेन अपि उक्तं यत् संघस्य सदस्याः गृहं गत्वा द्वार-द्वार-अभियानेन समर्थनं संग्रहीष्यन्ति। सः मलय-घटकं “आधुनिक-आसनसोलस्य शिल्पकारः” इति अभिहितवान्।
कार्यक्रमस्य संयोजकः बीबी-कोलेजस्य भवन-प्रमुखः डॉ अमिताभ बसु अपि स्वस्य अभिभाषणे मलय-घटकस्य समर्थनं कर्तुं आह्वानं कृतवान्। सम्मेलनस्य समन्वयः डॉ कौशिक मण्डलेन कृतः, तथा च मञ्चसञ्चालनं डॉ चञ्चल विश्वासेन सम्पन्नम्।
इदं सम्मेलनं न केवलं शिक्षाशास्त्रिणां विचारविनिमयस्य मञ्चः अभवत्, अपि तु शिक्षा समाजयोः मध्ये उत्तम-समन्वयस्य स्थापने एकं महत्वपूर्णं पदं अपि सिद्धम्।
---------------
हिन्दुस्थान समाचार