Enter your Email Address to subscribe to our newsletters

प्रयागराजनगरम्, ०२ अप्रैलमासः (हि.स.)। विद्या-भारती-संबद्धस्य काशी-प्रान्तस्य रानी-रेवती-देवी-सरस्वती-विद्या-निकेतन-इण्टर-कॉलेज-राजापुरे वार्षिक-परीक्षाफल-वितरणम् तथा अलंकरण-समारोहः प्रधानाचार्यस्य बांके-बिहारी-पाण्डेयस्य मार्गदर्शने, पूर्व-छात्रैः तथा मातृ-भारती-संघटनस्य भगिनीभिः सह, द्वयोः चरणयोः आकर्षक-सांस्कृतिक-कार्यक्रमैः सम्पन्नः।
विद्यालयस्य संगीताचार्यः मीडिया-प्रभारी मनोज-गुप्तः अवदत् यत् प्रथम-चरणे अरुण-कक्षातः पञ्चम-पर्यन्तं, द्वितीय-चरणे षष्ठ-सप्तम-अष्टम-नवम-एकादश-कक्षाणां सफलाः छात्र-छात्र्यः प्रमाणपत्रैः स्मृति-चिह्नैश्च सम्मानिताः। एतेषां सम्माननं पूर्व-छात्रैः ईसीसी-गणित-विभागस्य सहायक-प्राध्यापकः डॉ.रामजी-पाण्डेयः, सीडीए-पेंशन-विभागस्य वरिष्ठ-लेखापरीक्षकः अभिषेक-मिश्रः, कविः प्रतियोगी-छात्रः रवि-प्रकाश-कसौधनः तथा मातृ-भारती-संघटनस्य भगिनीभिः कृतम्।
परीक्षा-प्रमुखः अवधेश-गुप्तः अवदत् यत् शिशु-कक्षातः नवम-तथा-एकादश-पर्यन्तं १७९६ छात्र-छात्र्यः परीक्षायां सम्मिलिताः, परीक्षाफलं शत-प्रतिशतं जातम्। वर्षपर्यन्तं विभिन्न-क्रियाकलापेषु, सांस्कृतिक-कार्यक्रमेषु, क्रीडा-क्षेत्रे च उत्कृष्ट-प्रदर्शनं कृतवन्तः छात्र-छात्र्यः, शत-प्रतिशत-उपस्थितिं धारयन्तः शिक्षकाः च सम्मानिताः। वरिष्ठ-अधिवक्ता के.एन.कुमारस्य सौजन्येन हकीम-रामचन्द्र-एजुकेशनल-न्यासेन प्रथम-द्वितीय-तृतीय-स्थान-प्राप्तानां ३९ छात्र-छात्रीणां कृते क्रमशः ७००, ५००, ३०० रुप्यकाणां नगद-पुरस्काराः प्रदत्ताः।
अस्मिन् अवसरे छात्र-छात्रीभिः मनोज-गुप्त-पायल-जायसवालयोः निर्देशनम् अनुसृत्य आकर्षकाः सांस्कृतिक-कार्यक्रमाः प्रस्तुताः। अतिथीनां स्वागतं तथा आभार-प्रदर्शनं प्रधानाचार्येण बांके-बिहारी-पाण्डेयेन कृतम्, परिचयं सत्य-प्रकाश-पाण्डेयः दत्तवान्, संचालनं दिनेश-कुमार-शुक्लेन कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता