अरपा सायक्लोथॉन बिलासपुरस्य 2026 भव्यम् आयोजनं अप्रैलमासीये पञ्चमे दिनाङ्के
बिलासपुरम् 02 अप्रैलमासः (हि.स.)। स्वास्थ्य-फिटनेस-पर्यावरणसंरक्षणार्थं तथा इन्धनसंरक्षणस्य प्रोत्साहनाय “अरपा सायक्लोथॉन बिलासपुर २०२६” इति कार्यक्रमः आगामिनि ५ एप्रिलदिनाङ्के आयोज्यते। प्रातः ५:३० वादने आरभ्यमाणा एषा २५ किलोमीटरदीर्घा सायक्लो
आयोजक संतोष गुप्ता कलेक्टर  संजय अग्रवाल  को आमंत्रित करते हुए


बिलासपुरम् 02 अप्रैलमासः (हि.स.)।

स्वास्थ्य-फिटनेस-पर्यावरणसंरक्षणार्थं तथा इन्धनसंरक्षणस्य प्रोत्साहनाय “अरपा सायक्लोथॉन बिलासपुर २०२६” इति कार्यक्रमः आगामिनि ५ एप्रिलदिनाङ्के आयोज्यते। प्रातः ५:३० वादने आरभ्यमाणा एषा २५ किलोमीटरदीर्घा सायक्लोथॉन-प्रतियोगिता बिलासपुर-नगरस्य मुंगेली-नाका-मैदानात् प्रारभ्यते।

जिलाधीशः संजयअग्रवालः तथा वरिष्ठपुलिसअधीक्षकः रजनेश सिंह गुरुवासरे नागरिकान् अस्मिन् आयोजने सहभागित्वाय आहूतवन्तौ।

अस्यां प्रतियोगितायां पुरुषवर्गे (गियरयुक्ता तथा अगियरयुक्ता सायक्ला) तथा महिलावर्गे पृथक् स्पर्धाः आयोज्यन्ते। विजेतृभ्यः आकर्षकाः नगदपुरस्काराः निर्दिष्टाः सन्ति। पुरुषवर्गे प्रथम-द्वितीय-तृतीयस्थानप्राप्तेभ्यः क्रमशः १०,०००, ७,०००, ५,००० रुप्यकाणि प्रदास्यन्ते; महिलावर्गे तु ५,०००, ३,०००, २,००० रुप्यकाणि पुरस्काररूपेण निर्धारितानि सन्ति। अतिरिक्तरूपेण शीर्ष १० पुरुषाः तथा शीर्ष ६ महिलाः प्रतिभागिनः विशेषसान्त्वनापुरस्कारान् अपि प्राप्स्यन्ति।

अधिकारिणौ उक्तवन्तौ यत् एषः कार्यक्रमः अद्यतनकाले अतीव महत्त्वपूर्णः अस्ति, यतः सायक्लप्रयोगेन केवलं इन्धनसंरक्षणं न भवति, अपि तु स्वास्थ्य-फिटनेसयोः कृते अपि अत्युत्तमं साधनम् अस्ति। ताभ्यां आयोजकेभ्यः शुभाशयाः प्रदत्ताः तथा नागरिकानां सहभागित्वाय आह्वानं कृतम्।

आयोजने सर्वेभ्यः प्रतिभागिभ्यः अल्पाहारः (रिफ्रेशमेंट्) तथा समापनप्रमाणपत्रं (फिनिशर-सर्टिफिकेट्) अपि प्रदास्यते। तथा च बिलासपुरात् बहिः आगच्छन्तां प्रतिभागिनां कृते रात्रिविश्रामस्य भोजनस्य च विशेषव्यवस्था अपि सुनिश्चिता अस्ति।

अस्मिन् आयोजने नगरस्य बहवः प्रतिष्ठितसंस्थाः सहयोगं कुर्वन्ति। स्पर्धायाः पञ्जीकरणं ऑनलाइन-क्यूआर-कोडद्वारा कर्तुं शक्यते। पञ्जीकरणशुल्कं पुरुषवर्गस्य कृते २९९ रूप्यकाणि, महिलावर्गस्य कृते १४९ रूप्यकाणि च निर्धारितम् अस्ति।

अस्य आयोजनस्य प्रमुखाः आयोजकाः सन्तोषगुप्तः, प्रदीपसाहू च तथा छत्तीसगढ़ सोशल मीडिया सोसाइटी इति संस्था।

---------------

हिन्दुस्थान समाचार