Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, ०२ अप्रैलमासः (हि.स.)। असमे विधानसभानिर्वाचनस्य प्रचारः तीव्रतां प्राप्तवान्। अस्यैव क्रमस्य अन्तर्गतं भाजपा-नेता केन्द्रीयगृहमन्त्री अमितशाहः अद्य पुनः राज्यप्रवासम् आगत्य निर्वाचन-प्रचारे भागं ग्रहीष्यति।
अमितशाहः अद्य अपराह्णे त्रिवादने कालियाबर-क्षेत्रे एनडीए-प्रत्याशी मन्त्री केशवमहन्तस्य समर्थनार्थं निर्वाचन-प्रचारं करिष्यति। अस्यां सभायां सः भाजपा-एनडीए-गठबन्धनस्य अभ्यर्थिनां पक्षे समर्थनं याचिष्यति तथा सर्वकारेण कृतानि विकासकार्याणि जनतायाः पुरतः प्रस्तोष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani