अनुराग कपिलः एनएमडीसी इत्यस्मिन् निदेशकः वित्तविभागीयःपदभारः संभालितः
नवदिल्ली, 02 अप्रैलमासः (हि.स)। भारतीयरेलवेलेखासेवायाः (IRAS) १९९८ संवत्सरस्य बैचसम्बद्धः अधिकारी अनुराग कपिल भारतस्य महानतमलौह-अयस्क-उत्पादकसंस्था एनएमडीसी लिमिटेड मध्ये “निदेशक (वित्त)” पदे कार्यभारं स्वीकृतवान्। इस्पातमन्त्रालयेन गुरुवासरे प्रक
अनुराग कपिल का फाइल फोटो


नवदिल्ली, 02 अप्रैलमासः (हि.स)।

भारतीयरेलवेलेखासेवायाः (IRAS) १९९८ संवत्सरस्य बैचसम्बद्धः अधिकारी अनुराग कपिल भारतस्य महानतमलौह-अयस्क-उत्पादकसंस्था एनएमडीसी लिमिटेड मध्ये “निदेशक (वित्त)” पदे कार्यभारं स्वीकृतवान्। इस्पातमन्त्रालयेन गुरुवासरे प्रकाशिते वक्तव्ये उक्तं यत् अनुरागकपिलः मङ्गलवासरे अस्मिन् पदे नियुक्तः अभवत्।

कपिलस्य भारतीयरेलवे तथा केन्द्रीयसार्वजनिकउपक्रमेषु २६ वर्षाधिकः अनुभवः अस्ति, यस्मिन् वित्तीयप्रबन्धनम्, सार्वजनिकक्षेत्रीयशासनम्, परिचालनविशेषज्ञता तथा रणनीतिकदृष्टिः अपि अन्तर्भवति।

मन्त्रालयेन उक्तं यत् तेन भारतीयरेलवे मध्ये वरिष्ठमण्डलवित्तप्रबन्धकः, एफ ए एवं सी ए ओ FA & CAO (पर्यटनम्), एफ ए एवं सी ए ओ (वित्तम् एवं सामान्यः), उपमुख्यसतर्कताधिकारी च इत्यादिषु प्रमुखेषु पदेषु कार्यं कृतम्। सः कोयला मंत्रालय मध्ये अपि निदेशकपदे कार्यं कृतवान्, यत्र तेन नीतिनिर्माणसम्बद्धकार्याणि तथा क्षेत्रीयप्रक्रियाः सुव्यवस्थिततया संचालिताः।

इस्पातमन्त्रालयस्य अनुसारं एनएमडीसी मध्ये नियुक्तेः पूर्वं सः रेलवेबोर्डे कार्यकारिणीनिदेशकः (वित्त-व्ययः) इति पदे कार्यरतः आसीत्। तत्र तेन भारतीयरेलवे सम्बन्धिषु वित्तनीतिविषयेषु, व्ययप्रबन्धने, योजनासु, परियोजनानिरीक्षणे तथा उत्पादकताविश्लेषणे महत्त्वपूर्णं दायित्वं वहितम्।

अतिरिक्ततया सः रेलवेसम्बद्धेषु सर्वेषु सीपीएसयू-उपक्रमेषु पूँजी-पुनर्गठनम्, सहमति-ज्ञापनानि , विनिवेशप्रस्तावाः तथा वित्तीयअनुमोदनप्रक्रियाः इत्यादिषु उपक्रमेषु योगदानं दत्त्वा सार्वजनिकक्षेत्रीयशासनस्य सुदृढीकरणे अपि महत्त्वपूर्णां भूमिकां निर्व्यूढतवान्।

--------------

हिन्दुस्थान समाचार