Enter your Email Address to subscribe to our newsletters

अररियाजनपदः, ०२ अप्रैलमासः (हि.स.)। फारबिसगञ्ज-महाविद्यालयस्य प्रधानाचार्यः डॉ.अवधेश-कुमार-यादवः नागालैण्ड-राज्यपालेन नन्दकिशोर-यादवेन सह पटना-स्थिते तस्य आवासे शिष्टाचार-साक्षात्कारं कृत्वा आशीर्वादं प्राप्तवान्।
प्रधानाचार्येण महाविद्यालयस्य विकासाय शैक्षणिक-स्तर-सुधारविषये चर्चा कृता, तस्य विचाराः अपि स्वीकृताः। अस्मिन् अवसरे राज्यपालः नन्दकिशोर-यादवः महाविद्यालय-विकासाय पूर्ण-सहयोगस्य समर्थनस्य च आश्वासनं दत्तवान्। प्रधानाचार्यः तस्य स्नेहपूर्ण-आश्वासनाय कृतज्ञतां प्रकटितवान्।
हिन्दुस्थान समाचार / Dheeraj Maithani