Enter your Email Address to subscribe to our newsletters




अयोध्यानगरम्, ०२ अप्रैलमासः (हि.स.)। हनुमज्जयन्त्याः अवसरे गुरुवासरे श्रीराम-जन्मभूमि-मन्दिरे परकोटे दक्षिणभागे मध्ये स्थिते हनुमान-मन्दिरे ध्वजारोहणं कृतम्। एतत् ध्वजारोहणं बजरङ्गदलस्य संस्थापकेन बहूनां पूर्व-प्रमुखैः प्रतिनिधिभिः च कृतम्।
बजरङ्गदलस्य संस्थापकः पूर्व-सांसदः विनय-कटियारः, अनन्तरं सङ्घटन-प्रमुखरूपेण जयभान-सिंह-पवैया (मध्यप्रदेशः), प्रकाश-शर्मा (कानपुरः), सुरेन्द्र-जैनः (दिल्ली) इत्येते संयुक्तरूपेण हनुमान-मन्दिरे शिखरे ध्वजम् आरोहितवन्तः। शिखरे स्थितः दण्डः नव-फीट् सप्त इंच इत्यावत् प्राप्तः, तस्मिन् आरोहितः ध्वजः नवफिट् त्रि-इंच-लम्बः तथा चतुर्फिट् सप्त इंच यावत् विस्तीर्णः अस्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani