Enter your Email Address to subscribe to our newsletters


बलरामपुरम्, 02 अप्रैलमासः (हि.स.)।चैत्रमासस्य पूर्णिमायाः पावने अवसरे हनुमज्जन्मोत्सवस्य निमित्तं रामानुजगंज-नगरं सम्पूर्णतया भक्तिमयवातावरणे निमग्नम् अस्ति। मध्यबाजारस्थिते प्राचीनहनुमन्मन्दिरे प्रातःकालात् एव श्रद्धालूनां जनसागरः समागतम्। मन्दिरपरिसरः “जय श्रीराम” तथा “बजरङ्गबली की जय” इति घोषैः निनादितः, यत्र भक्ति-आस्थयोः अद्भुतः संगमः दृश्यते।
प्रातः ८:३० वादनात् मन्दिरे विधिवत् पूजनार्चनायाः क्रमः आरब्धः, तेन सह सुन्दरकाण्ड-पाठः तथा हनुमान चालीसा-स्य अखण्डपाठः प्रवर्तते। बहुसंख्यकाः भक्तजनाः मन्दिरं गत्वा पूजनार्चनां कुर्वन्ति तथा हनुमतः आशीर्वादं प्राप्नुवन्ति। मन्दिरपरिसरे प्रवर्तमानः सामूहिकः सुन्दरकाण्डपाठः वातावरणं अधिकं आध्यात्मिकं करोति।
हनुमज्जन्मोत्सवस्य अवसरे मन्दिरसमित्या श्रद्धालुभ्यः प्रसादवितरणस्य विशेषव्यवस्था अपि कृता। दिवसभरं श्रद्धालूनां आगमन-निर्गमनं निरन्तरं वर्तते, येन मध्यबाजारक्षेत्रे विशेषः उत्साहः शोभा च दृश्यते।
निर्धारितकार्यक्रमानुसारं अद्य गुरुवासरे सायं ४ वादने प्राचीनहनुमन्मन्दिरात् भव्यशोभायात्रा निष्कास्यते। एषा शोभायात्रा नगरस्य प्रमुखमार्गैः गत्वा कन्हरनदीतीरे स्थितं श्रीराममन्दिरं प्रति गमिष्यति, यत्र अस्याः समापनं भविष्यति। यात्राकाले भजन-कीर्तनैः ढोलनगाडावाद्यैः सह भक्तानां उत्साहः चरमसीमां प्राप्स्यति।
समापनस्थले पूजनार्चनानन्तरं प्रसादवितरणं भविष्यति। अस्मिन् धार्मिककार्यक्रमे नगरस्य बहवः श्रद्धालवः, सामाजिककार्यकर्तारः, जनप्रतिनिधयः च सहभागी भविष्यन्ति। हनुमज्जन्मोत्सवं प्रति सम्पूर्णे रामानुजगञ्जे श्रद्धा, उल्लासः, भक्ति च अद्वितीयं वातावरणं निर्मितवन्ति।
---------------
हिन्दुस्थान समाचार