मुख्यमंत्री करोल बाग स्थिते हनुमान मंदिरे कृतवान् पूजा-अर्चनाम्
नव दिल्ली, 02 अप्रैलमासः (हि.स.)। दिल्ली-नगरस्य मुख्यमन्त्री रेखा गुप्ता हनुमज्जन्मोत्सवे करोलबागस्थिते हनुमन्मन्दिरे पूजनार्चनां कृतवती। सा प्रभोः राम परमभक्तं अञ्जनीपुत्रं हनुमान प्रति दिल्लीस्थितप्रत्येकपरिवारस्य सुख-शान्ति-समृद्ध्यर्थं प्रार
करोल बाग स्थित हनुमान मंदिर में पूजा-अर्चना करती मुख्यमंत्री रेखा गु्प्ता


नव दिल्ली, 02 अप्रैलमासः (हि.स.)।

दिल्ली-नगरस्य मुख्यमन्त्री रेखा गुप्ता हनुमज्जन्मोत्सवे करोलबागस्थिते हनुमन्मन्दिरे पूजनार्चनां कृतवती। सा प्रभोः राम परमभक्तं अञ्जनीपुत्रं हनुमान प्रति दिल्लीस्थितप्रत्येकपरिवारस्य सुख-शान्ति-समृद्ध्यर्थं प्रार्थनां कृतवती।

मुख्यमन्त्री सामाजिकमाध्यमे (एक्स्) प्रकाशिते सन्देशे उक्तवती यत् श्रीरामे प्रति हनुमतः अखण्डभक्तिः, निःस्वार्थसेवा, अद्वितीयपराक्रमश्च सनातनजीवनमूल्यानां सर्वोच्चः आदर्शः अस्ति। तस्य जीवनं अस्मान् शिक्षयति यत् यदा हृदये रामस्मरणं भवति तदा सर्वे संकटाः स्वयमेव नश्यन्ति।

सा उक्तवती यत् संकटमोचनहनुमतः कृपया सर्वेषां जीवने साहसस्य, सेवायाः, संयमस्य, समर्पणस्य च संचारः भवतु। सा सर्वेभ्यः हनुमज्जन्मोत्सवस्य हार्दिकशुभाशयाः अपि प्रदत्तवती।

मुख्यमन्त्री पुनः उक्तवती यत् हनुमतः भक्ति-शक्ति-सेवायाः प्रतीकरूपे तस्य उच्चादर्शाः अस्मान् कर्मणि अटूटनिष्ठां तथा लोककल्याणस्य प्रेरणां ददति। अञ्जनीपुत्रस्य स्वरूपं अस्मान् बोधयति यत् परमविनम्रतया अदम्यसाहसेन च महान् अपि संकटः जेतुं शक्यते।

---------------------

हिन्दुस्थान समाचार