Enter your Email Address to subscribe to our newsletters

बिलासपुरम्, 02 अप्रैलमासः (हि.स.)।
छत्तीसगढप्रदेशस्य बिलासपुर नगरे एकं तादृशं मन्दिरम् अस्ति, यत् केवलं पूजाअर्चनायाः केन्द्रं न, अपि तु सामाजिकन्यायस्य अपूर्वा दृष्टान्तः अपि आसीत्। अत्र हनुमन्तं साक्षिणं कृत्वा या पंचायत् आयोजिता आसीत्, सा दशकैः यावत् जनानां विवादान् समाधानं कृतवती तथा समाजे ऐक्यस्य उत्कृष्टं उदाहरणं स्थापितवती।
नगरस्य मगरपारा-तालापारा क्षेत्रे स्थितं “श्रीबजरङ्गपञ्चायतमन्दिरम्” स्वकीयं विशेषपरिचयं धारयति। शतवर्षाधिकपुरातनं एतत् स्थलम् तस्मिन् काले स्मारयति, यदा न्यायप्राप्त्यर्थं जनाः न्यायालयानां परिभ्रमणं न कुर्वन्ति स्म, अपि तु आस्थाविश्वासयोः आधारे अत्रैव निर्णयाः क्रियन्ते स्म।
मन्दिरपरिसरे हनुमन्तं साक्षिणं कृत्वा पंचायत् उपविशति स्म, यत्र ग्रामनगरयोः जनाः स्वस्वविवादान् आनयन्ति स्म। तदा प्रदत्ताः निर्णयाः न केवलं अन्तिमाः मन्यन्ते स्म, अपि तु समाजस्य सर्वैः वर्गैः सहर्षं स्वीकृताः अपि भवन्ति स्म।
अस्याः पंचायतः प्रमुखा विशेषता आसीत् यत् न्यायनिर्णयसमये धर्मजातिवर्गभेदः कश्चन न आसीत्। हिन्दू-मुस्लिम-ईसाईसमुदायानां सर्वे अपि जनाः समत्वेन स्ववचनं निवेदयन्ति स्म तथा पंचायतनिर्णयं हर्षेण स्वीकुर्वन्ति स्म। एषा परम्परा सामाजिकसौहार्दस्य पारस्परिकविश्वासस्य च अद्भुता दृष्टान्तः आसीत्, या अद्यापि जनानां चर्चाविषयः अस्ति।
अस्याः परम्परायाः आरम्भः आङ्ग्लशासनकाले अभवत् इति स्थानीयनिवासी ओमप्रकाशपटेलः कथयति। तस्मिन् काले मन्दिरस्य अद्यतनरूपं न आसीत्, केवलं मुक्तप्रदेशे हनुमतः प्रतिष्ठा कृता आसीत्, यत्र पंचायत् आयोजिता आसीत्। समाजस्य वृद्धाः मुखियाश्च उभयपक्षयोः वचनं शृत्वा निष्पक्षं निर्णयं ददति स्म। जनानां विश्वासः आसीत् यत् हनुमन्तं साक्षिणं कृत्वा कृतः निर्णयः कदापि मिथ्या न भवति।
तस्मिन् काले नगरे सीमिता प्रशासनव्यवस्था आसीत्, अतः आरक्षिन्यायालययोः अपेक्षया अस्याः पंचायतायाः अधिकं विश्वासं कुर्वन्ति स्म। विवादाः अत्रैव समाधानं प्राप्नुवन्ति स्म, येन कालधनयोः उभयोः अपि संरक्षणं भवति स्म। क्रमशः एतत् स्थलम् “बजरङ्गपञ्चायतमन्दिरम्” इति नाम्ना प्रसिद्धं जातम्—यत्र आस्था तथा न्याययोः अद्वितीयः संगमः दृश्यते।
अद्यापि अस्य मन्दिरस्य प्रति जनानां विश्वासः स्थितः अस्ति। यद्यपि कालान्तरात् न्यायव्यवस्था आधुनिकरूपं प्राप्नोति, तथापि अस्य मन्दिरस्य ऐतिहासिकपरिचयः अद्यापि जनानां हृदयेषु जीवति। स्थानीयजनाः एनं केवलं धार्मिकस्थलम् न मन्यन्ते, अपि तु सामाजिकऐक्यस्य न्यायपरम्परायाः च प्रतीकं मन्यन्ते। एतत् मन्दिरम् अद्यापि दर्शयति यत् यदा समाजे विश्वासः नैतिकता च दृढा भवतः, तदा न्यायः केवलं विधिना न, अपि तु सामूहिकबुद्ध्या आस्थया च अपि साध्यः भवति।
---------------
हिन्दुस्थान समाचार