Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 02 अप्रैलमासः (हि.स)।
केंद्रीयवाणिज्यउद्योगमन्त्री पीयूष गोयलो गुरुवासरे उक्तवान् यत् भारतदेशः अमेरिकादेशे स्वोत्पादानां कृते तरजीही-बाजारप्रवेशम् अपेक्षते। तेन उक्तं यत् भारतस्य अमेरिकेन सह सम्बन्धाः अत्यन्तं सुदृढाः सन्ति, येषु प्रौद्योगिकी-रक्षा-व्यापार-निवेशक्षेत्रेषु गाढा रणनीतिकसहभागिता अपि अन्तर्भवति।
पीयूषगोयलः अत्र आयोजितायां पत्रकारसम्मेलनसभायां उक्तवान् यत् भारतस्य अमेरिकेन सह व्यापारसम्झौता प्रतिस्पर्धिदेशानां तुलनया श्रेष्ठतमः अस्ति। सः अवदत् यत् भारतः स्वोत्पादानां कृते अमेरिकादेशे तरजीही-बाजारप्रवेशम् इच्छति। अमेरिकया सह व्यापारवृद्धेः विषये देशः उत्तमे स्थितौ अस्ति।
सः अवदत् यद् “विश्वस्य शीघ्रतमवर्धमानार्थव्यवस्थारूपेण भारते निवेशकानां कृते अपाराः सम्भावनाः सन्ति, ये भविष्ये अपि भारतस्य अवसरान् अधिकमहत्त्वेन पश्यन्ति।”
तेन उक्तं यत् मार्चमासस्य २७ दिनाङ्के कैमरूनदेशस्य याउंडे नगरे अमेरिकी-व्यापारप्रतिनिधिना जैमिसनग्रीर इत्यनेन सह उपवेशनं कृतवान्, यत्र भारत-अमेरिका-द्विपक्षीयव्यापारसहमतेः सम्बन्धे अग्रिमपदानि चर्चितानि। उभौ विश्व व्यापार संगठनस्य १४तममन्त्रिस्तरीयसम्मेलनस्य अवसरं प्रति अपि मिलितवन्तौ।
केंद्रीयवाणिज्यउद्योगमन्त्री कैमरूनदेशे आयोजिते विश्व व्यापार संगठनस्य 14तमे मंत्रिस्तरीय सम्मेलने भारतस्य सहभागितां रचनात्मकसंबद्धतां च विषयीकृत्य आयोजितां पत्रकारसभां संबोधितवान्। स्वसम्बोधने सः WTO-सुधारविषये गहनविचारविमर्शेषु भारतस्य सक्रियभूमिकां प्रकाशितवान्।
तेन उक्तं यत् विश्व व्यापार संगठनस्य 14तमे मंत्रिस्तरीय सम्मेलने भारतेन स्वनागरिकाणां, विशेषतः कृषकाणां मत्स्यजीविनां च हितसंरक्षणं सुनिश्चितम्। अपि च निष्पक्ष-पारदर्शी-नियमाधारितबहुपक्षीयव्यापारव्यवस्थायाः प्रति भारतस्य दृढप्रतिबद्धता पुनः उद्घोषिता।
गोयलः अवदत् यत् “निवेशसुविधाविकाससहमतिः” इत्यादीनां बहुपक्षीयसहमतीनां भारतेन विरोधः कृतः, तथा यथोचितसुरक्षोपायानां सामान्यसम्मतेः विना तेषां डब्लूटीओ-संरचनायां समावेशे अस्माभिः अनुमतिः न दत्ता।
अन्ते सः अवदत् यत् कृषिक्षेत्रे भारतेन सार्वजनिकसंग्रहणव्यवस्था तथा विशेषसुरक्षातन्त्रस्य स्थायिसमाधानस्य आवश्यकता पुनः प्रतिपादिता। केन्द्रसरकारः कृषकहितसंरक्षणाय खाद्यसुरक्षायै च पूर्णतया प्रतिबद्धा अस्ति इति अपि तेन उक्तम्।
---------------
हिन्दुस्थान समाचार