Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 02 अप्रैलमासः (हि.स.)।
असमविधानसभानिर्वाचनस्य सन्दर्भे एआईयूडीएफ-दलस्य पक्षे प्रचारं कर्तुं असदुद्दीन ओवैसी गत-रात्रौ असमराज्यं प्राप्तवान्, येन राज्ये निर्वाचन-वातावरणं अधिकं तीव्रं जातम्।
तस्य गुवाहाटी-नगरं प्राप्य मौलाना बदरुद्दीन अजमलस्य परिजनैः तस्य स्वागतं कृतम्। एतेन सह तस्य निर्वाचन-दौरस्य औपचारिक-आरम्भः अभवत्।
तस्य आगमनेन सह राज्ये आक्रामक-साम्प्रदायिक-निर्वाचन-प्रचारस्य तीव्रता वर्धिष्यते इति चर्चाः अपि प्रारब्धाः सन्ति।
ओवैसी गुरुवासरे असमराज्ये विभिन्नेषु स्थानेषु आयोजितेषु निर्वाचन-कार्यक्रमेषु भागं गृह्णीयात्।
हिन्दुस्थान समाचार