पश्चिम-एशियायां प्रवर्तमान-युद्धस्य मध्ये महती शिथिलता, सर्वकारेण पेट्रोकेमिकल-उत्पादाः शुल्कमुक्ताः कृताः
नवदिल्लीनगरम्, ०२ अप्रैलमासः (हि.स.)। पश्चिम-एशियायां प्रवर्तमान-युद्धस्य मध्ये केन्द्र-सर्वकारेण उद्योगानां शिथिलार्थं चत्वारिंशत् प्रमुख-पेट्रोकेमिकल-उत्पादेषु ३० जूनमास-पर्यन्तं सीमाशुल्कं निवारितम्। एतेषाम् उत्पादानां शुल्कमुक्ततया औषधि-वाहनोपक
प्रतीकात्मक


नवदिल्लीनगरम्, ०२ अप्रैलमासः (हि.स.)। पश्चिम-एशियायां प्रवर्तमान-युद्धस्य मध्ये केन्द्र-सर्वकारेण उद्योगानां शिथिलार्थं चत्वारिंशत् प्रमुख-पेट्रोकेमिकल-उत्पादेषु ३० जूनमास-पर्यन्तं सीमाशुल्कं निवारितम्। एतेषाम् उत्पादानां शुल्कमुक्ततया औषधि-वाहनोपकरण-प्लास्टिक-वस्त्र-पैकेजिंग-रसायन-उद्योगानां उत्पादन-व्ययः न्यूनः भविष्यति, महार्घस्य प्रभावश्च न्यूनीकरिष्यते।

उक्तेषु अपक्व-सामग्रीषु एसिटिक-अम्ल-मेथेनॉल-फिनोल-टोल्यून-एथिलीन-पॉलीमरादयः प्रमुखाः सन्ति। सर्वकारेण उक्तं यत् अस्य निर्णयस्य उद्देश्यं आपूर्तिशृङ्खलां स्थिरां कर्तुं तथा मूल्यवृद्धिं निरोद्धुं, उद्योगानां कृते आवश्यक-अपक्व-सामग्री-उपलब्धतां सुनिश्चेतुं च अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani