हनुमान जयंत्यां 'वाल्मीकि रामायणस्य फलकं निर्गतम्, भक्तिसमर्पणयोःदृश्यम्
हनुमज्जयन्त्याः पावनावसरे बहुप्रतीक्षितस्य चलचित्रस्य “वाल्मीकि रामायण” इत्यस्य निर्मातारः विशिष्टं फलकं प्रकाशितवन्तः, येन दर्शकानां ध्यानं स्वयम् आकृष्टम्। अस्मिन् दृश्ये भगवान् रामः तथा भगवान् हनुमान् ययोः मध्ये भक्त्या पूर्णः भावनात्मकः क्षणः द
वाल्मीकि रामायण


हनुमज्जयन्त्याः पावनावसरे बहुप्रतीक्षितस्य चलचित्रस्य “वाल्मीकि रामायण” इत्यस्य निर्मातारः विशिष्टं फलकं प्रकाशितवन्तः, येन दर्शकानां ध्यानं स्वयम् आकृष्टम्। अस्मिन् दृश्ये भगवान् रामः तथा भगवान् हनुमान् ययोः मध्ये भक्त्या पूर्णः भावनात्मकः क्षणः दर्शितः, यः समर्पणस्य श्रद्धायाश्च गाम्भीर्यं सुन्दररूपेण प्रस्तौति।

अस्य चलचित्रस्य निर्देशनं भावना तलवार करोतिः, येन अस्य विशेषता अधिका जाता। “वाल्मीकि रामायण” तादृशेषु विरलभव्येषु आध्यात्मिकचलचित्रेषु अन्तर्भवति, यान् एका महिला निर्देशकः महता स्तरেণ निर्माति। अयं प्रकल्पः महर्षेः वाल्मीकेः अमरकृतिं संवेदनशीलतया प्रामाणिकतया च चित्रपटे प्रस्तोतुम् प्रयतते।

चलचित्रस्य रचनात्मकदलं अपि अत्यन्तं सुदृढम् अस्ति, यस्मिन् प्रोडक्शन डिज़ाइनर साबू सिरिल, लेखकः आनन्द नीलकण्ठन्, सिनेमैटोग्राफर बिनोद प्रधान, ध्वनिनिर्माता रेसुल पूकुट्टी तथा संवादलेखकः डॉ चन्द्रप्रकाश द्विवेदी च सन्ति। एतत् दलं चलचित्रं तकनीकी तथा भावनात्मकयोः उभयोः स्तरयोः भव्यं कर्तुं प्रयतते।

“वाल्मीकि रामायण” इदं चलचित्रं २ अक्टूबर २०२६ तमे दिने सिनेमागृहेषु प्रदर्शितुं सज्जम् अस्ति। नवीनसृजनात्मकप्रस्तुतेः सह दर्शकेषु उत्साहः अपि वर्धितः, तथा च एतत् भव्यं सिनेमानुभवरूपेण परिगण्यते।

हिन्दुस्थान समाचार