Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०२ अप्रैलमासः (हि.स.)। लोकसभायां विपक्षनेता राहुलगान्धी पूर्वसैनिक-अंशदायी-स्वास्थ्य-योजनायां (ईसीएचएस) गम्भीराः न्यूनताः सन्ति इति आरोपं कृतवान्। तेन उक्तं यत् एताभिः समस्याभिः बहवः, ७२ लक्षाधिकाः पूर्वसैनिकाः तेषां परिवाराश्च प्रभाविताः भवन्ति। योजनायां प्रतिपूर्तेः विलम्बः, औषधीनां न्यूनता, चिकित्सालयैः उपचारस्य अस्वीकारः, अवशिष्ट-राशेः अपि प्रदानम् इत्यादयः समस्याः सततम् अवस्थिताः सन्ति।
राहुलगान्धी फेसबुक-सन्देशे अलिखत् यत् आहतपूर्वसैनिकैः सह मिलित्वा एताः समस्याः ज्ञाताः। सः अवदत् यत् संसदे विषयम् उत्थापिते सति सर्वकारेण प्रश्नाः अपसारिताः, अवशिष्ट-राशेः विषये स्पष्टा सूचना न दत्ता, न च विलम्बस्य कारणानि विवृतानि।
तेन उक्तं यत् महालेखापरीक्षकस्य (सीएजी) प्रतिवेदने अपि योजनायै पर्याप्ता धनराशिः न दत्ता इति उल्लिखितम्, किन्तु सर्वकारः आवश्यक-वित्तविवरणस्य अभावस्य कारणं स्पष्टं न कृतवती।
राहुलगान्धी विकलाङ्ग-पूर्वसैनिकानां कर-शिथिलता-विषये अपि प्रश्नम् उत्थापितवान्। वित्त-विधेयके प्रस्तावित-प्रावधानानुसारं यदि सैनिकः सेवायां एव तिष्ठति तर्हि तस्य विकलाङ्गता-पेन्शन कराधीनं भविष्यति इति तेन उक्तम्। एतत् देशसेवां कुर्वतां सैनिकानां दण्डवत् इति अपि सः अवदत्।
हिन्दुस्थान समाचार / Dheeraj Maithani