डिमापुरं प्राप्तः राहुलगान्धी, बोकाजान-क्षेत्रे निर्वाचन-सभां सम्बोधितवान्
कार्बी-आङ्ग्लोंग-जनपदः, ०२ अप्रैलमासः (हि.स.)। लोकसभायां विपक्षनेता कांग्रेस-नेता राहुलगान्धी अद्य डिमापुरं प्राप्तः, ततः सः असमस्य पर्वतीय-जनपदे कार्बी-आङ्ग्लोंगस्य बोकाजान-क्षेत्रे आयोजितायां निर्वाचन-सभायां सहभागी अभवत्। एषा सभा विपक्षी-एकता-मञ
राहुल गांधी


कार्बी-आङ्ग्लोंग-जनपदः, ०२ अप्रैलमासः (हि.स.)। लोकसभायां विपक्षनेता कांग्रेस-नेता राहुलगान्धी अद्य डिमापुरं प्राप्तः, ततः सः असमस्य पर्वतीय-जनपदे कार्बी-आङ्ग्लोंगस्य बोकाजान-क्षेत्रे आयोजितायां निर्वाचन-सभायां सहभागी अभवत्।

एषा सभा विपक्षी-एकता-मञ्चेन समर्थित-अभ्यर्थिनः पक्षे आयोजिता, यत्र राहुलगान्धी कांग्रेस-दलस्य पक्षे निर्वाचन-प्रचारं कृतवान्। सभास्थले पञ्चदशसहस्राधिकानां जनानाम् उपस्थितिः अभिलेखिता।

सभायां असम-प्रदेश-कांग्रेस-समितेः अध्यक्षः गौरवगोगोई-इत्यनेन सह विपक्षी-एकता-मञ्चस्य अनेके वरिष्ठ-नेतारः उपस्थिताः आसन्। अपरतः गतद्विदिनात् पर्वतीय-जनपदे भाजपायाः केचन नेतारः, येषु पीयूषहजारिका अपि सम्मिलितः। अस्यैव मध्ये राहुलगान्धेः प्रवासस्य समये पीयूषहजारिकायाः उपस्थितौ कांग्रेस-दलस्य शतशः कार्यकर्तारः भाजपायां सम्मिलिताः इति समाचारः प्राप्तः, येन निर्वाचन-परिवेशः अधिकः उष्णः जातः।

हिन्दुस्थान समाचार / Dheeraj Maithani