Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 02 अप्रैलमासः (हि.स.)।
असमविधानसभानिर्वाचनस्य विषये राजनैतिकचञ्चलता तीव्रा अभवत् तथा विभिन्नदलानां शीर्षनेतारः निरन्तरं निर्वाचनप्रचारे संलग्नाः सन्ति। अस्मिन् प्रसङ्गे लोकसभायाः विपक्षनेता राहुलगान्धी असमराज्ये काङ्ग्रेसदलस्य प्रचारं अधिकं तीव्रं कुर्वन् गुरुवासरे एकदिवसीयदौरेण राज्यं प्राप्तवान्। अस्य समये सः बोकाजान तथा तिताबरस्थयोः जनसभयोः सम्बोधनं करिष्यति।
एषः दौः तस्मिन् समये भवति यदा अस्य पूर्वं काङ्ग्रेसाध्यक्षः मल्लिकार्जुनखड्गे, सांसदः प्रियङ्का गान्धी वाड्रा तथा कर्नाटकस्य उपमुख्यमन्त्री डी के शिवकुमारः अपि राज्ये निर्वाचनप्रचारं प्रवर्तयित्वा गतवन्तः सन्ति। निर्धारितकार्यक्रमानुसारं राहुलगान्धी प्रातःकाले विशेषविमानेन दिल्लीतः प्रस्थित्य डिमापुरविमानतलं प्राप्स्यति। ततः सः हेलिकॉप्टरयानस्य साहाय्येन कार्बी आङ्ग्लोङ्गजिलास्थितं बोकाजानं गमिष्यति, यत्र सः एकां विशालां जनसभां सम्बोधयिष्यति।
बोकाजानसभाया अनन्तरं राहुलगान्धी जोरहाटजिलास्थिते तिताबरे अन्यां महत्वपूर्णां जनसभां सम्बोधयिष्यति, यत्र सः उपर्यसमप्रदेशस्य मतदातृभिः सह संवादं करिष्यति। दिनस्य समापनसमये सः जोरहाटतः विशेषविमानेन दिल्लीं प्रत्यागमनं करिष्यति इति सम्भावना अस्ति।
प्रधानमन्त्री बुधवासरे भाजपादलस्य एनडीएसमर्थितप्रत्याशिनां पक्षे प्रचारं कृत्वा प्रत्यागतः। अपरतः वरिष्ठनेतारौ राजनाथसिंहः अमितशाहः च राज्यस्य विभिन्नेषु भागेषु रैल्यः जनसभाः च कृतवन्तौ। अन्यतः काङ्ग्रेसनेत्री प्रियङ्का गान्धी अपि दलस्य विपक्षगठबन्धनस्य च प्रत्याशिनां समर्थनार्थं प्रचारं कृत्वा गतवती।
बुधवासरे उपर्यसमप्रदेशे जनसभाः कृत्वा सा चतुर्थे अप्रिल् दिने पुनः असमदौरे आगमिष्यति। अस्मिन् मध्ये राहुलगान्धी पुनः पञ्चमे अप्रिल् दिने क्रमशः बोकाजान तथा धेमाजिस्थले निर्वाचनप्रचारं करिष्यति। अतः परं काङ्ग्रेसाध्यक्षः मल्लिकार्जुनखड्गे अपि षष्ठे अप्रिल् दिने राज्यभ्रमणे आगमिष्यति, येन निर्वाचनस्पर्धा अधिका तीव्रा जाता अस्ति।
----------
हिन्दुस्थान समाचार