Enter your Email Address to subscribe to our newsletters

उज्जैनम्, 02 अप्रैलमासः (हि.स.)।प्रसिद्धः अभिनेता राकेश बेदी बुधवासरे महाकालेश्वर ज्योतिर्लिंग आगत्य भगवान् महाकालस्य दर्शनं कृतवान्। अभिनेत्रा विधिविधानपूर्वकं पूजनार्चना कृता तथा देशस्य प्रदेशस्य च सुख-समृद्ध्यर्थं प्रार्थना कृता। दर्शनसमये मन्दिरपरिसरे भक्तानां चञ्चलता वर्धिता, बहवः श्रद्धालवः तम् द्रष्टुं उत्सुकाः दृश्यन्ते स्म।
अस्मिन् अवसरे महाकालेश्वरमन्दिरप्रबन्धसमित्या राकेशबेदिनः पारम्परिकरीत्या स्वागतं सत्कारश्च कृतः। अभिनेतापि करयोः संयोज्य श्रद्धालून् अभिवाद्य किञ्चित्कालं मन्दिरपरिसरे स्थितवान्।
हिन्दुस्थान समाचार