Enter your Email Address to subscribe to our newsletters

पश्चिम मेदिनीपुरम्, 02 अप्रैलमासः (हि. स.)।
विधानसभानिर्वाचनं दृष्ट्वा नारायणगढ़-विधानसभाक्षेत्रस्य भाजपाप्रत्याशी रमाप्रसादगिरी बहूनि विकासात्मकानि जनकल्याणकारी-वचनानि च प्रस्तुत्य स्वस्य निर्वाचनप्रचारस्य स्वरूपं निश्चितवान्। बुधवासरे सायंकाले बेलदा-स्थले दलस्य निर्वाचनकार्यालये आयोजिते पत्रकारसम्मेलने सः स्वस्य दृष्टिकोणं विविधाः योजनाः च उद्घोषितवान्।
पत्रकारसम्मेलने रमाप्रसादगिरी मुख्यतया आधारभूत-संरचना स्वास्थ्यसेवा आर्थिकसहायता च इत्येषु विषयेषु विशेषं बलं दत्तवान्। क्षेत्रस्य यातायात-समस्यायाः स्थायी-समाधानार्थं तेन बेलदा-केशियाड़ी-मोड़ इत्यत्र नूतन-उड्डयनपुलस्य तथा अधःपथस्य निर्माणस्य प्रतिज्ञा कृता। अपि च बेलदा-नगरवासिनां दीर्घकालीन-आवश्यकतां दृष्ट्वा बेलदा-रेलस्थानके बहूनां महत्वपूर्ण-रेलयानानां स्थापनव्यवस्था करिष्यामि इति आश्वासनं दत्तम्।
आर्थिकविकासस्य विषये सः उक्तवान् यत् यदि तस्य दलस्य शासनं भविष्यति तर्हि आवासयोजनायाः अन्तर्गतं गृह-निर्माणार्थं त्रिलक्ष-रूप्यकाणां सहायता प्रदास्यते। स्त्रीणां कृते प्रतिमासं त्रिसहस्र-रूप्यकाणि तथा निर्जीविकायूनां कृते षट्सहस्र-रूप्यकाणां मासिक-भत्ता दास्यते इति अपि घोषितम्। एतत्सह क्षेत्रस्य शिक्षित-युवानां कृते नूतन-रोजगार-अवसरान् सृजिष्यामि इति अपि सः अवदत्।
सः अपि उक्तवान् यत् विधानसभाक्षेत्रस्य सर्वासां ग्राम्य-सड़कानां विकासः आधुनिकीकरणं च क्रियते इति। राजनैतिक-विश्लेषकानां मतानुसारं सामाजिक-आधारभूत-संरचनासम्बद्धैः एतैः वचनैः सामान्यजनानां समर्थनं प्राप्तुं प्रत्याशिनः मुख्यः उद्देश्यः अस्ति।
अस्मिन् पत्रकारसम्मेलने भाजपाप्रत्याशिना सह दलस्य स्थानीय-नेतारः कार्यकर्तारः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार