तमिलनाडोः उपमुख्यमंत्री उदयनिधि स्टालिनो नामांकनं कृतवान्
चेन्नई, 02 अप्रैलम् (हि.स.)। तमिलनाडु-राज्यस्य उपमुख्यमन्त्री उदयनिधि स्टालिन गुरुवासरे चेन्नई-नगरस्य चेपॉक–त्रिप्लिकेन विधानसभाक्षेत्रात् द्रविड़ मुनेत्र कड़गम-पक्षस्य प्रत्याशिरूपेण स्वस्य नामनिर्देशनपत्रं समर्पितवान्। अस्मात् क्षेत्रात् सः द
उपमुख्यमंत्री उदयनिधि स्टालिन


चेन्नई, 02 अप्रैलम् (हि.स.)।

तमिलनाडु-राज्यस्य उपमुख्यमन्त्री उदयनिधि स्टालिन गुरुवासरे चेन्नई-नगरस्य चेपॉक–त्रिप्लिकेन विधानसभाक्षेत्रात् द्रविड़ मुनेत्र कड़गम-पक्षस्य प्रत्याशिरूपेण स्वस्य नामनिर्देशनपत्रं समर्पितवान्। अस्मात् क्षेत्रात् सः द्वितीयवारं निर्वाचनं स्पर्धते।

तमिलनाडुविधानसभानिर्वाचनस्य कृते मतदानम् एकस्मिन्नेव चरणे २३ एप्रिलदिनाङ्के भविष्यति। अतः सर्वे राजनैतिकदलानां नेतारः स्वस्वप्रत्याशिनां समर्थनार्थं तीव्रप्रचारकार्येषु संलग्नाः सन्ति। अपरतः निर्वाचनायोगः निष्पक्षं शतप्रतिशतं मतदानं सुनिश्चितुं विद्यालयेषु महाविद्यालयेषु च जनजागरूकताकार्यक्रमान् अपि आयोजयति। निर्वाचनस्य उड्डयनदस्ता तथा स्थायीनिरीक्षणदलानां अधिकारिणः राज्यस्य सर्वेषु जनपदेषु वाहनानां सघनपरीक्षणं कुर्वन्ति।

नामनिर्देशनपत्रप्रदाने अन्तिमतिथिः ६ एप्रिल अस्ति, अतः प्रत्याशिनः निरन्तरं स्वनामनिर्देशनपत्राणि समर्पयन्ति। अस्मात् कारणात् जनपदसङ्ग्राहककार्यालयेषु विशेषा उत्साहो दृश्यते। अस्यैव क्रमस्य अन्तर्गतं डीएमके-युवविङ्गस्य सचिवः उपमुख्यमन्त्री च उदयनिधि स्टालिनः अद्य चेन्नई-नगरस्य चेपॉक–त्रिप्लिकेन निर्वाचनक्षेत्रस्य रिटर्निङ्ग-अधिकाऱिणः आर्. सुगन्थी समक्षं स्वनामनिर्देशनपत्रं प्रस्तुतवान्।

अस्मिन् अवसरे सांसदः दयानिधि मारन, डीएमके-राज्यमाध्यमप्रकोष्ठस्य संयुक्तसचिवः अधिवक्ता सरवनन् इत्यादयः बहवः जनाः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार