राजकीय-महाविद्यालयेषु उच्च-प्रौद्योगिकी-युक्ताः भविष्यन्ति प्रयोगशालाः : मन्त्री धनसिंहः
देहरादूननगरम्, ०२ अप्रैलमासः (हि.स.) – उत्तराखण्ड-शासनस्य उच्च-शिक्षा-मन्त्री डॉ.धनसिंहः रावतः उक्तवान् यत् प्रदेशस्य राजकीय-महाविद्यालयेषु विज्ञान-प्रयोगशालाः आधुनिक-सुविधाभिः सुसज्जीकृताः कृत्वा उच्च-प्रौद्योगिकी-युक्ताः करिष्यन्ते। अस्य प्रथम-चर
मंत्री धन सिंह रावत।


देहरादूननगरम्, ०२ अप्रैलमासः (हि.स.) – उत्तराखण्ड-शासनस्य उच्च-शिक्षा-मन्त्री डॉ.धनसिंहः रावतः उक्तवान् यत् प्रदेशस्य राजकीय-महाविद्यालयेषु विज्ञान-प्रयोगशालाः आधुनिक-सुविधाभिः सुसज्जीकृताः कृत्वा उच्च-प्रौद्योगिकी-युक्ताः करिष्यन्ते। अस्य प्रथम-चरणे एमबी-राजकीय-स्नातकोत्तर-महाविद्यालय-हल्द्वानी तथा राजकीय-स्नातकोत्तर-महाविद्यालय-कोटद्वारम् इत्येतयोः प्रयोगशालयोः उन्नयनार्थं चतु:कोटि-रूप्यकाणां धनराशिः स्वीकृता।मन्त्री उक्तवान् यत् उभयोः महाविद्यालययोः विज्ञान-प्रयोगशालाः भारतीय-प्रौद्योगिकी-संस्थान-कानपुरस्य सहयोगेन उच्चीकृताः भविष्यन्ति, येन छात्रेभ्यः आधुनिक-उपकरणानां माध्यमेन प्रयोगात्मकं शोधात्मकं च प्रशिक्षणं प्रदास्यते। प्रत्येक-महाविद्यालयाय द्वि-द्वि-कोटि-रूप्यकाणि अनुमोदितानि। राज्य-शासनं उच्च-शिक्षायां गुणवत्ता-नवाचार-शोध-क्रियाणां प्रोत्साहने प्रतिबद्धम् इति अपि सः अवदत्।

मन्त्री अवदत् यत् भविष्ये भारतीय-विज्ञान-संस्थान-बैङ्गलूरु तथा भारतीय-विज्ञान-शिक्षा-अनुसन्धान-संस्थान-मोहाली इत्यादिनां प्रतिष्ठित-संस्थानानां सहयोगेन बेसिक-साइंस-प्रयोगशालाः, टिंकरिङ्ग-प्रयोगशालाः तथा एप्लिकेशन-प्रयोगशालाः विकसिताः भविष्यन्ति। एतेन छात्रेभ्यः हस्त-प्रयोग-प्रशिक्षणेन व्यावहारिकानुभवः अपि प्रदास्यते।

सः अवदत् यत् महाविद्यालयेषु आधारभूत-संरचनायाः सुदृढीकरणेन सह अध्यापकाः अपि प्रशिक्ष्यन्ते, येन समग्र-शैक्षणिक-पर्यावरणस्य विकासः स्यात् तथा उत्तराखण्डं उच्च-शिक्षा-क्षेत्रे आदर्श-राज्यरूपेण प्रतिष्ठाप्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता