Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०२ अप्रैलमासः (हि.स.) – मुख्यमन्त्रिणः योगी-आदित्यनाथस्य निर्देशेन बाङ्ग्लादेशात् आगताः ३३१ विस्थापिताः हिन्दू-परिवाराः लखीमपुर-खीरी-जनपदस्य विभिन्न-तहसील-ग्रामेषु पुनर्वासिताः। धौरहरा-तहसीलस्य सुजानपुर-ग्रामे ९७ परिवाराः, मोहम्मदी-तहसीलस्य मोहनपुर-ग्रन्ट-इत्यत्र ४१ तथा मियांपुर-ग्रामे १५६ परिवाराः, गोला-तहसीलस्य ग्रन्ट-संख्या-३ ग्रामे ३७ परिवाराः च स्थापिताः।
एतेभ्यः परिवारेभ्यः जीविकोपार्जनार्थं कृषि-भूमिः अपि आवंटिता। गोला-तहसीले प्रति-परिवारं प्रायः तिस्रः एकर-परिमिता भूम्यः प्रदत्ताः। सुजानपुर-ग्रामे ६० परिवारेभ्यः प्रतिशततया १.६२० हेक्टेयर-परिमिता, अन्येषां ३७ परिवाराणां कृते प्रायः ०.६०७ हेक्टेयर-भूमिः प्रदत्ता। मोहम्मदी-तहसीलस्य मोहनपुर-ग्रन्टे विभिन्न-परिवारेभ्यः त्रयः, पञ्च, सप्त एकर-परिमिता कृषि-भूमिः प्रदत्ता। मियांपुर-ग्रामे १५६ परिवारेभ्यः प्रति-परिवारं लगभग ४.७५ एकर-भूमिः दत्ता।
प्रशासनस्य कथनानुसारम् एतेभ्यः परिवारेभ्यः भूमेः अतिरिक्तं विभिन्न-शासकीय-योजनानां लाभः अपि प्रदत्तः। मुख्यमन्त्री-कृषक-दुर्घटना-कल्याण-योजना, प्रधानमंत्री-किसान-सम्मान-निधि, उज्ज्वला-योजना, किसान-क्रेडिट-पत्रकम्, प्रधानमंत्री-आवास-योजना, वृद्धावस्था-पेंशन, सुकन्या-समृद्धि-योजना, मुख्यमन्त्री-सामूहिक-विवाह-योजना इत्यादिनां लाभाः प्रदत्ताः।
जनपदाधिकारी दुर्गा-शक्ति-नागपालः अवदत् यत् बाङ्ग्लादेशात् विस्थापितानाम् एतेषां ३३१ हिन्दू-परिवाराणां त्रिषु तहसीलेषु पुनर्वासः कृतः, तेभ्यः कृषि-भूमिः च सर्वाः जनकल्याण-योजनाः अपि प्रदत्ताः।
हिन्दुस्थान समाचार / अंशु गुप्ता