पात्रजनेभ्यः आवासस्य रोगनिधानस्य च भविष्यति व्यवस्था : मुख्यमंत्री योगी
जनता दर्शन : गोरखनाथ मंदिर में मुख्यमंत्री योगी आदित्यनाथ ने की लोगों से मुलाकात
करीब 100 लोगों की समस्याएं सुनकर दिया भरोसा, हर समस्या का कराएंगे सन्तुष्टिपरक निस्तारण*


करीब 100 लोगों की समस्याएं सुनकर दिया भरोसा, हर समस्या का कराएंगे सन्तुष्टिपरक निस्तारण*


करीब 100 लोगों की समस्याएं सुनकर दिया भरोसा, हर समस्या का कराएंगे सन्तुष्टिपरक निस्तारण*


गोरखपुरम्, 02 अप्रैलमासः (हि.स.)।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथो गुरुवासरे प्रातःकाले गोरखपुरप्रवासकाले गोरखनाथ मंदिर-मध्ये आयोजिते जनतादर्शने जनान् मिलित्वा तेषां समस्याः अशृणोत्। अस्मिन् सन्दर्भे तेन आवासविहीनानां कृते आवासप्रदानस्य तथा गम्भीररोगपीडितानाम् उपचारार्थं पर्याप्तार्थिकसहाय्यस्य आश्वासनं दत्तम्। सः उक्तवान् यत् सरकारः प्रत्येकं पात्रं आवश्यकं च जनं कल्याणकारीयोजनानां लाभं दातुं तथा सर्वासां समस्याः प्रभावेण निवारयितुं संकल्पिता अस्ति।

जनतादर्शनकार्यक्रमे मुख्यमन्त्री योगी आदित्यनाथः प्रायः शतं जनान् मिलितवान्। महंत दिग्विजयनाथ स्मृति भवन-स्य समक्षं उपविष्टान् जनान् प्रति गत्वा तेषां समस्याः सावधानतया अशृणोत्। तेषां प्रार्थनापत्राणि स्वीकृत्य निवारणार्थं सम्बन्धितप्रशासनिकपुलिसअधिकारिभ्यः निर्देशान् दत्तवान् यत् सर्वासां समस्याः समयबद्धतया निष्पक्षतया सन्तोषजनकं च समाधानं करणीयम्। पुलिससम्बद्धेषु विषयेषु शीघ्रं कठोरं च कार्यं कर्तुं निर्देशः दत्तः।

जनतादर्शने काचित् महिला स्वस्य आवाससमस्यां निवेदितवती। मुख्यमन्त्री ताम् आश्वस्तवान् यत् तस्यै सरकारस्य आवासयोजनया अन्तर्गतं गृहं प्रदास्यते। गम्भीररोगोपचारार्थं आर्थिकसहाय्यं याचमानान् जनान् प्रति अपि सः उक्तवान् यत् धनाभावात् कस्यापि उपचारः न स्थगिष्यते। सः अधिकारिणः निर्देशितवान् यत् ये ये आवश्यकवन्तः सन्ति, तेषां उच्चस्तरीयचिकित्सायाः अनुमानं शीघ्रं निर्माय प्रदातव्यम्।

जनतादर्शने केषाञ्चित् महिलानां सह आगतबालकेभ्यः चाकलेहं दत्वा मुख्यमन्त्री योगी आदित्यनाथः तान् सम्यक् अध्ययनाय प्रेरितवान्।

---------------

हिन्दुस्थान समाचार