हनुमत जन्मोत्सवे श्री संकट मोचन हनुमान जी महाराजस्य विशेषोपवेशने शृंगारःरामार्चापूजनं च
—विशेषासने श्रृङ्गारदर्शनं प्राप्तुं श्रद्धालवः अर्धरात्रोत्तरकालात् एव मन्दिरद्वारेषु पङ्क्तिबद्धाः अभवन्। गोस्वामी तुलसीदासद्वारा हनुमद्विग्रहः प्रतिष्ठापितः आसीत्। वाराणसी,02 अप्रैलमासः (हि.स.)।वाराणसी (काशी) उत्तरप्रदेशस्य धार्मिकनगरी हनुमज्जन
हनुमत ध्वजा शोभायात्रा


—विशेषासने श्रृङ्गारदर्शनं प्राप्तुं श्रद्धालवः अर्धरात्रोत्तरकालात् एव मन्दिरद्वारेषु पङ्क्तिबद्धाः अभवन्। गोस्वामी तुलसीदासद्वारा हनुमद्विग्रहः प्रतिष्ठापितः आसीत्।

वाराणसी,02 अप्रैलमासः (हि.स.)।वाराणसी (काशी) उत्तरप्रदेशस्य धार्मिकनगरी हनुमज्जन्मोत्सवे गुरुवासरे श्रीसंकटमोचनप्रभोः आराधनायां पूर्णतया निमग्ना आसीत्। चैत्रमासस्य शुक्लपक्षस्य पूर्णिमायां हनुमज्जन्मोत्सवे संकट मोचन मंदिर मध्ये वर्षपर्यन्तं स्थितिमुद्रया दर्शनं ददतः श्रीसंकटमोचनस्य (हनुमतः) विशेषः बैठकी-श्रृङ्गारः कृतः।

एतस्य उपवेशन-श्रृङ्गारस्य दर्शनार्थं श्रद्धालवः अर्धरात्रोत्तरकालात् एव मन्दिरद्वारेषु पङ्क्तिबद्धाः अभवन्। ज्ञायते यत् वर्षे हनुमज्जयंती एव एकः दिवसः अस्ति यदा श्रीसंकटमोचनः उपविष्टमुद्रया दर्शनं ददाति। ब्रह्ममुहूर्ते गोस्वामी तुलसीदास द्वारा प्रतिष्ठापितस्य संकटमोचनविग्रहस्य पञ्चामृतस्नानं कृतम्। ततः अनन्तरं विग्रहे सिन्दूरलेपनं कृतम्।

मन्दिरस्य महन्तः प्रो. विश्वम्भरनाथमिश्रस्य उपस्थितौ हनुमतः उपवेशन-श्रृङ्गारः सम्पन्नः। ब्रह्ममुहूर्ते सूर्योदयेन सह संकटमोचनस्य जन्मोत्सवः, भोगारत्याः अनन्तरं मन्दिरस्य द्वाराणि सामान्यश्रद्धालुभ्यः उद्घाटितानि। द्वारोद्घाटनेन सह मन्दिरप्राङ्गणं “संकटमोचनहनुमानकी जय” तथा “जय जय श्रीराम” इति घोषैः निनादितम्।

हनुमज्जन्मोत्सवे प्रातः ५:३० वादनेतः ६:३० वादनपर्यन्तं विशेषपूजनारती सम्पन्ना। तदनन्तरं रामचरितमानस-स्य एकाहपाठः आरब्धः। अस्मिन् समये प्रातःकालीनसत्रे शहनाईवादनं, ब्राह्मणैः रुद्राभिषेकः, श्रीरामचरितमानसस्य पाठः, श्रीसीतारामसंकीर्तनम्, रामार्चनपूजनम्, सुन्दरकाण्डपाठः च आयोजिताः।

सायंकाले ५ वादने रामकृष्ण मिशन-इत्यस्य कीर्तनमण्डलिभिः संकीर्तनकार्यक्रमः भविष्यति। रात्रिपर्यन्तं नगरस्य विविधरामायणमण्डलिभिः श्रीरामचरितमानसस्य अखण्डपाठः अपि आयोज्यते।

मन्दिरमहन्तेन उक्तं यत् ३ एप्रिलतः ५ एप्रिलपर्यन्तं सार्वभौमरामायणसम्मेलनं आयोज्यते। अस्मिन् काश्याः तथा देशस्य विविधेभ्यः प्रसिद्धाः मानसवक्तारः सायं ५ वादनात् रात्रौ १० वादनपर्यन्तं कथां प्रस्तोष्यन्ति। मुख्यतया पण्डित उमाशंकरशर्मा (बरेली), डा. भारतभूषणपाण्डेय (आरा), पण्डित चन्द्रकान्तचतुर्वेदी (भभुआ) इत्यादयः अस्मिन् कार्यक्रमे सहभागिनः भविष्यन्ति।

हिन्दुस्थान समाचार