Enter your Email Address to subscribe to our newsletters



भिखारीपुरतः निर्गता विशाल हनुमद्ध्वजा यात्रा,शोभायात्रायां 60 फीटमिते लंबे रथे सज्जा भगवतः श्री रामस्य प्रदर्शिनी संजाता आकर्षणस्य केंद्रम्
वाराणसी,02 अप्रैलमासः (हि.स.)।
-भगवतः शिव एकादशरुद्रावतारस्य श्रीसंकटमोचनहनुमतः जन्मोत्सवे गुरुवासरे वाराणसी (काशी) नाम्नि धार्मिकनगरे श्रद्धालवः हनुमन्मन्दिरेषु दर्शनपूजनार्थं समागता अभवन्। नगरे लघु-महान्ति सर्वाणि हनुमन्मन्दिराणि श्रीसंकटमोचनस्य आराधनाय श्रद्धालुयुवकानां दीर्घपङ्क्तिभिः पूर्णानि आसन्।
हनुमज्जयंतीदिने एव नगरस्य विभिन्नेषु भागेषु प्रातःकाले एव श्रद्धालवः हनुमद्ध्वजशोभायात्रां निर्गतवन्तः। अस्यां शोभायात्रायां बालकाः महिलाश्च अपि महानुत्साहेन श्रद्धया च सहभागित्वं कृतवन्तः। जयंतीअवसरे भिखारीपुरस्थानात् पूर्वाञ्चलप्रदेशस्य महान्तमा हनुमद्ध्वजशोभायात्रा निर्गता।
भिखारीपुरात् निर्गता एषा शोभायात्रा त्रिघण्टाधिकसमये संकट मोचन मंदिर प्रति प्राप्तवती। विशालायां यात्रायां सहस्रशः भक्ताः हनुमद्भजनानि गायतः नृत्यन्तश्च दृष्टाः। यात्रायां षष्टिफुटदीर्घे रथे स्थापिताः राम-दरबारस्य झाङ्किः, हनुमतः विशालप्रतिमा, शङ्खवादनं, डमरूवादनं च आकर्षणकेन्द्रम् आसीत्। अस्यां यात्रायां सप्तराज्यानां प्रदर्शिन्यः अपि समाविष्टाः आसन्।
यात्रायाः संयोजकः हनुमानसेवासमितेः संस्थापकाध्यक्षः रामबलीमौर्यः अवदत् यत् अस्यां त्रयोविंशतितमे शोभायात्रायां प्रायः एकलक्षं लघु-महान्ति ध्वजानि धारयन्तः श्रद्धालवः सहभागित्वं कृतवन्तः। सूर्योदयस्य अरुणिमायां महाआरत्याः अनन्तरं भिखारीपुरात् अस्याः विशालायाः यात्रायाः आरम्भः अभवत्। अस्मिन् ३०,००० अधिकाः भक्ताः, ११०० गदाधारिणः, ५१०० ध्वजाः च सहभागी अभवन्। एताः सर्वाः ध्वजाः बजरङ्गबलये समर्पिताः।
हनुमद्ध्वजयात्रायां त्रिकिलोमीटराधिकदीर्घा अखण्डा पङ्क्तिः नङ्गपादैः ध्वजान् धारयन्तः भक्ताः संकटमोचनमन्दिरं प्रति गतवन्तः। अस्याः यात्रायाः विशेषता आसीत् यत् ११०० भक्ताः स्वहस्तेषु बजरङ्गबलिनः प्रतीकं ‘गदा’ धारयन्तः आसन्। शोभायात्रायां षष्टिफुटदीर्घे रथे सज्जिते रामदरबारे संकटमोचनमन्दिरस्य प्रमुखकीर्तनमण्डली रामधुनकीर्तनं गायन्ती गच्छति स्म।
भिखारीपुरत्रिराहात् संकटमोचनमन्दिरपर्यन्तं मार्गे भक्तानां सुविधार्थं २५० अधिकाः सेवाशिविराः स्थापिताः आसन्। अत्र फलानि, मिष्टान्नानि, रसाः, छाछ, लस्सी, फलाहारः, शुष्कफलानि च सेवाभावेन वितरितानि। एषा ध्वजयात्रा भिखारीपुरत्रिराहात् आरभ्य नेवादा, सुन्दरपुर, नरिया, काशी हिन्दू विश्वविद्यालय (BHU), लङ्का मार्गेण गत्वा संकटमोचनमन्दिरं प्राप्तवती।
यात्राकाले बहुषु स्थानेषु भक्तानां पुष्पवृष्ट्या स्वागतं कृतम्। अस्मिन् अवसरे श्रीसंकटमोचनहनुमतः विग्रहे ५०१ किलोग्राम-लड्डूनां नैवेद्यः समर्पितः, यः अनन्तरं श्रद्धालुषु वितरितः।
हिन्दुस्थान समाचार